यजुर्वेद - अध्याय 19/ मन्त्र 49
ऋषिः - शङ्ख ऋषिः
देवता - पितरो देवताः
छन्दः - विराट् त्रिष्टुप्
स्वरः - धैवतः
8
उदी॑रता॒मव॑र॒ऽउत्परा॑स॒ऽउन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑। असुं॒ यऽई॒युर॑वृ॒काऽऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु॥४९॥
स्वर सहित पद पाठउत्। ई॒र॒ता॒म्। अव॑रे। उत्। परा॑सः। उत्। म॒ध्य॒माः। पि॒तरः॑। सो॒म्यासः॑। असु॑म्। ये। ई॒युः। अ॒वृ॒काः। ऋ॒त॒ज्ञा इत्यृ॑त॒ऽज्ञाः। ते। नः॒। अ॒व॒न्तु॒। पि॒तरः॑। हवे॑षु ॥४९ ॥
स्वर रहित मन्त्र
उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः । असुँयऽईयुरवृकाऽऋतज्ञास्ते नोवन्तु पितरो हवेषु ॥
स्वर रहित पद पाठ
उत्। ईरताम्। अवरे। उत्। परासः। उत्। मध्यमाः। पितरः। सोम्यासः। असुम्। ये। ईयुः। अवृकाः। ऋतज्ञा इत्यृतऽज्ञाः। ते। नः। अवन्तु। पितरः। हवेषु॥४९॥
विषयः - पितृभिः किम्भूतैः किं कार्य्यमित्याह॥
अन्वयः - हे मनुष्याः! येऽवृका ऋतज्ञाः पितरो हवेष्वसुमुदीयुस्ते न उदवन्तु, ये सोम्यासोऽवरे परासो मध्यमाः पितरसन्ति, तेऽस्मान् हवेषूदीरताम्॥४९॥
पदार्थः -
(उत्) (ईरताम्) प्रेरताम् (अवरे) अर्वाचीनाः (उत्) (परासः) प्रकृष्टाः (उत्) (मध्यमाः) मध्ये भवाः (पितरः) पालकाः (सोम्यासः) सौम्यगुणसम्पन्नाः (असुम्) प्राणम् (ये) (ईयुः) प्राप्नुयुः (अवृकाः) अविद्यमानाः वृकाश्चौरा येषु ते (ऋतज्ञाः) ये ऋतं सत्यं जानन्ति (ते) (नः) अस्मान् (अवन्तु) रक्षन्तु (पितरः) रक्षितारः (हवेषु) संग्रामादिषु व्यवहारेषु॥४९॥
भावार्थः - ये जीवन्तो निकृष्टमध्यमोत्तमाः स्तेयादिदोषरहिता विदितवेदितव्या अधिगतयाथातथ्या विद्वांसस्सन्ति, ते विद्याभ्यासोपदेशाभ्यां सत्यधर्मग्राहकत्वेन बाल्यावस्थायां विवाहनिषेधेन सर्वाः प्रजाः पालयन्तु॥४९॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal