Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 46
    ऋषिः - वैखानस ऋषिः देवता - श्रीर्देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    9

    ये स॑मा॒नाः सम॑नसो जी॒वा जी॒वेषु॑ माम॒काः। तेषा॒ श्रीर्मयि॑ कल्पता॒मस्मिँल्लो॒के श॒तꣳ समाः॑॥४६॥

    स्वर सहित पद पाठ

    ये। स॒मा॒नाः। सम॑नस॒ इति॒ सऽम॑नसः। जी॒वाः। जी॒वेषु॑। मा॒म॒काः। तेषा॑म्। श्रीः। मयि॑। क॒ल्प॒ता॒म्। अ॒स्मिन्। लो॒के। श॒तम्। समाः॑ ॥४६ ॥


    स्वर रहित मन्त्र

    ये समानाः समनसो जीवा जीवेषु मामकाः । तेषाँ श्रीर्मयि कल्पतामस्मिँलोके सतँसमाः ॥


    स्वर रहित पद पाठ

    ये। समानाः। समनस इति सऽमनसः। जीवाः। जीवेषु। मामकाः। तेषाम्। श्रीः। मयि। कल्पताम्। अस्मिन्। लोके। शतम्। समाः॥४६॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 46
    Acknowledgment

    अन्वयः - येऽस्मिँल्लोके जीवेषु समानाः समनसो मामका जीवास्सन्ति, तेषां श्रीर्मयि शतं समाः कल्पताम्॥४६॥

    पदार्थः -
    (ये) (समानाः) सदृग्गुणकर्मस्वभावाः (समनसः) समाने धर्मे मनो येषान्ते (जीवाः) ये जीवन्ति ते (जीवेषु) (मामकाः) मदीयाः (तेषाम्) (श्रीः) राज्यलक्ष्मीः (मयि) (कल्पताम्) (अस्मिन्) (लोके) (शतम्) (समाः) संवत्सराः॥४६॥

    भावार्थः - सन्ताना यावत् पितरो जीवेयुस्तावत् तान् सेवन्ताम्। पुत्रा यावत् पितृसेवकाः स्युस्तावत् ते सत्कर्त्तव्याः स्युर्यत् पितॄणां धनादिवस्तु तत्पुत्राणां यत्पुत्राणां तत्पितॄणाञ्चास्तु॥४६॥

    इस भाष्य को एडिट करें
    Top