Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 42
    ऋषिः - वैखानस ऋषिः देवता - सोमो देवता छन्दः - गायत्री स्वरः - षड्जः
    6

    पव॑मानः॒ सोऽअ॒द्य नः॑ प॒वित्रे॑ण॒ विच॑र्षणिः। यः पोता॒ स पु॑नातु मा॥४२॥

    स्वर सहित पद पाठ

    पव॑मानः। सः। अ॒द्य। नः॒। प॒वित्रे॑ण। विच॑र्षणि॒रिति॒ विऽच॑र्षणिः। यः। पोता॑। सः। पु॒ना॒तु॒। मा॒ ॥४२ ॥


    स्वर रहित मन्त्र

    पवमानः सोऽअद्य नः पवित्रेण विचर्षणिः । यः पोता स पुनातु मा ॥


    स्वर रहित पद पाठ

    पवमानः। सः। अद्य। नः। पवित्रेण। विचर्षणिरिति विऽचर्षणिः। यः। पोता। सः। पुनातु। मा॥४२॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 42
    Acknowledgment

    अन्वयः - यो नो मध्ये पवित्रेण पवमानो विचर्षणिरस्ति, सोऽद्यास्माकं पवित्रकर्त्तोपदेशकश्चास्ति, स पोता मा पुनातु॥४२॥

    पदार्थः -
    (पवमानः) पवित्रः (सः) (अद्य) (नः) अस्माकं मध्ये (पवित्रेण) शुद्धाचरणेन (विचर्षणिः) विविधविद्याप्रद ईश्वरः (यः) (पोता) पवित्रकर्त्ता (सः) (पुनातु) (मा) माम्॥४२॥

    भावार्थः - मनुष्या ईश्वरवद्धार्मिका भूत्वा स्वसन्तानान् धर्मात्मनः कुर्युरीदृशानन्तराऽन्यानपि ते पवित्रयितुं न शक्नुवन्ति॥४२॥

    इस भाष्य को एडिट करें
    Top