Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 22
    ऋषिः - हैमवर्चिर्ऋषिः देवता - यज्ञो देवता छन्दः - अनुष्टुप् स्वरः - गान्धारः
    9

    धा॒नाना॑ रू॒पं कुव॑लं परीवा॒पस्य॑ गो॒धूमाः॑। सक्तू॑ना रू॒पं बदर॑मुप॒वाकाः॑। कर॒म्भस्य॑॥२२॥

    स्वर सहित पद पाठ

    धा॒नाना॑म्। रू॒पम्। कुव॑लम्। प॒री॒वा॒पस्य॑। प॒री॒वा॒पस्येति॑ परिऽवा॒पस्य॑। गो॒धूमाः॑। सक्तू॑नाम्। रू॒पम्। बद॑रम्। उ॒प॒वाका॒ इत्यु॑प॒ऽवाकाः॑। क॒र॒म्भस्य॑ ॥२२ ॥


    स्वर रहित मन्त्र

    धानानाँ रूपङ्कुवलम्परीवापस्य गोधूमाः । सक्तूनाँ रूपम्बदरमुपवाकाः करम्भस्य ॥


    स्वर रहित पद पाठ

    धानानाम्। रूपम्। कुवलम्। परीवापस्य। परीवापस्येति परिऽवापस्य। गोधूमाः। सक्तूनाम्। रूपम्। बदरम्। उपवाका इत्युपऽवाकाः। करम्भस्य॥२२॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 22
    Acknowledgment

    अन्वयः - हे मनुष्याः! यूयं धानानां कुवलं रूपं परीवापस्य गोधूमा रूपं सक्तूनां बदरं रूपं करम्भस्योपवाका रूपमस्तीति विजानीत॥२२॥

    पदार्थः -
    (धानानाम्) भृष्टयवाद्यन्नानाम् (रूपम्) (कुवलम्) कोमलं बदरीफलमिव (परीवापस्य) पिष्टादेः (गोधूमाः) (सक्तूनाम्) (रूपम्) (बदरम्) बदरीफलवद्वर्णयुक्तम् (उपवाकाः) उपगताः प्राप्ता यवाः (करम्भस्य) दधिसंसृष्टस्य सक्तुनः॥२२॥

    भावार्थः - ये मनुष्याः सर्वेषामन्नानां सुरूपं कृत्वा भुञ्जते भोजयन्ति च त आरोग्यमाप्नुवन्ति॥२२॥

    इस भाष्य को एडिट करें
    Top