Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 19/ मन्त्र 27
    ऋषिः - हैमवर्चिर्ऋषिः देवता - यज्ञो देवता छन्दः - भुरिगनुष्टुप् स्वरः - गान्धारः
    8

    वा॒य॒व्यैर्वाय॒व्यान्याप्नोति॒ सते॑न द्रोणकल॒शम्। कु॒म्भीभ्या॑मम्भृ॒णौ सु॒ते स्था॒लीभि॑ स्था॒लीरा॑प्नोति॥२७॥

    स्वर सहित पद पाठ

    वा॒य॒व्यैः᳖ वा॒य॒व्या᳖नि। आ॒प्नो॒ति॒। सते॑न। द्रो॒ण॒क॒ल॒शमिति॑ द्रोणऽकल॒शम्। कु॒म्भीभ्या॑म्। अ॒म्भृ॒णौ। सु॒ते। स्था॒लीभिः॑। स्था॒लीः। आ॒प्नो॒ति॒ ॥२७ ॥


    स्वर रहित मन्त्र

    वायव्यैर्वायव्यानाप्नोति सतेन द्रोणकलशम् । कुम्भीभ्यामम्भृणौ सुते स्थालीभि स्थालीराप्नोति ॥


    स्वर रहित पद पाठ

    वायव्यैः वायव्यानि। आप्नोति। सतेन। द्रोणकलशमिति द्रोणऽकलशम्। कुम्भीभ्याम्। अम्भृणौ। सुते। स्थालीभिः। स्थालीः। आप्नोति॥२७॥

    यजुर्वेद - अध्याय » 19; मन्त्र » 27
    Acknowledgment

    अन्वयः - यो विद्वान् वायव्यैर्वायव्यानि सतेन द्रोणकलशमाप्नोति, कुम्भीभ्यामम्भृणौ सुते स्थालीभिः स्थालीराप्नोति, स आढ्यो जायते॥२७॥

    पदार्थः -
    (वायव्यैः) वायुषु भवैर्वायुदेवताकैर्वा (वायव्यानि) वायुषु भवानि वायुदेवताकानि वा (आप्नोति) (सतेन) विभक्तेन कर्मणा (द्रोणकलशम्) द्रोणश्च कलशश्च तत् (कुम्भीभ्याम्) धान्यजलाधाराभ्याम् (अम्भृणौ) अपो बिभर्ति याभ्यां तौ (सुते) निष्पादिते। लिङ्गव्यत्ययश्छान्दसः (स्थालीभिः) यासु पदार्थान् स्थापयन्ति पाचयन्ति वा ताभिः (स्थालीः) (आप्नोति)॥२७॥

    भावार्थः - कश्चिदपि मनुष्यो वायुकार्याण्यविदित्वैतत्कारणेन विना परिमाणविद्यामनया विना पाकविद्यां तामन्तरान्नसंस्कारक्रियाञ्च प्राप्तुन्न शक्नोति॥२७॥

    इस भाष्य को एडिट करें
    Top