अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 38
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - त्रिष्टुप्
सूक्तम् - सर्वाधारवर्णन सूक्त
म॒हद्य॒क्षं भुव॑नस्य॒ मध्ये॒ तप॑सि क्रा॒न्तं स॑लि॒लस्य॑ पृ॒ष्ठे। तस्मि॑न्छ्रयन्ते॒ य उ॒ के च॑ दे॒वा वृ॒क्षस्य॒ स्कन्धः॑ प॒रित॑ इव॒ शाखाः॑ ॥
स्वर सहित पद पाठम॒हत् । य॒क्षम् । भुव॑नस्य । मध्ये॑ । तप॑सि । क्रा॒न्तम् । स॒लि॒लस्य॑ । पृ॒ष्ठे । तस्मि॑न् । श्र॒य॒न्ते॒ । ये । ऊं॒ इति॑ । के । च॒ । दे॒वा: । वृ॒क्षस्य॑ । स्कन्ध॑: । प॒रित॑:ऽइव । शाखा॑: ॥७.३८॥
स्वर रहित मन्त्र
महद्यक्षं भुवनस्य मध्ये तपसि क्रान्तं सलिलस्य पृष्ठे। तस्मिन्छ्रयन्ते य उ के च देवा वृक्षस्य स्कन्धः परित इव शाखाः ॥
स्वर रहित पद पाठमहत् । यक्षम् । भुवनस्य । मध्ये । तपसि । क्रान्तम् । सलिलस्य । पृष्ठे । तस्मिन् । श्रयन्ते । ये । ऊं इति । के । च । देवा: । वृक्षस्य । स्कन्ध: । परित:ऽइव । शाखा: ॥७.३८॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 38
Subject - Skambha Sukta
Meaning -
The Mighty Supreme, adorable Skambha, is ever on the move in the midst of the universe and on top of its dynamics. In that and on that relentless Brahma depend and abide all those that are the divine forces of nature, like branches abiding and living on and around the trunk of the tree. (That’s why the winds, the waters and the mind never come to a stand still, they vibrate and flow with divine vitality.)