अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 10
सूक्त - अध्यात्म अथवा व्रात्य
देवता - एकपदोष्णिक्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तंय॑ज्ञाय॒ज्ञियं॑ च॒ वा॑मदे॒व्यं च॑ य॒ज्ञश्च॒ यज॑मानश्चप॒शव॑श्चानु॒व्यचलन्॥
स्वर सहित पद पाठतम् । य॒ज्ञा॒य॒ज्ञिय॑म् । च॒ । वा॒म॒ऽदे॒व्यम् । च॒ । य॒ज्ञ: । च॒ । यज॑मान: । च॒ । प॒शव॑: । च॒ । अ॒नु॒ऽव्य᳡चलन् ॥२.१०॥
स्वर रहित मन्त्र
तंयज्ञायज्ञियं च वामदेव्यं च यज्ञश्च यजमानश्चपशवश्चानुव्यचलन्॥
स्वर रहित पद पाठतम् । यज्ञायज्ञियम् । च । वामऽदेव्यम् । च । यज्ञ: । च । यजमान: । च । पशव: । च । अनुऽव्यचलन् ॥२.१०॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(तम्) व्रात्यं परमात्मानम् (यज्ञायज्ञियम्) अ०८।१०(२)।६। यज्ञायज्ञ-घ प्रत्ययः। सर्वेभ्यो यज्ञेभ्यो हितं वेदज्ञानम् (च) (वामदेव्यम्) अ० ४।३४।१। वामदेवाड् ड्यड्ड्यौ। पा० ४।२।९। वामदेव-ड्य। वामदेवेनश्रेष्ठपरमेश्वरेण विज्ञापितं पृथिव्यादिभूतपञ्चकम् (च) (यज्ञः) पूजनीयव्यवहारः (च) (यजमानः) पूजनीयव्यवहारकर्ता (च) (पशवः) जन्तवः-निरु० ११।२९। (अनुव्यचलन्)अनुसृत्य विचरितवन्तः ॥
इस भाष्य को एडिट करें