अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 4
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदा ब्राह्मी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
बृ॑ह॒तश्च॒ वै सर॑थन्त॒रस्य॑ चादि॒त्यानां॑ च॒ विश्वे॑षां च दे॒वानां॑ प्रि॒यं धाम॑ भवति॒ तस्य॒ प्राच्यां॑ दि॒शि ॥
स्वर सहित पद पाठबृ॒ह॒त: । च॒ । वै । स: । र॒थ॒म्ऽत॒रस्य॑ । च॒ । आ॒दि॒त्याना॑म् । च॒ । विश्वे॑षाम् । च॒ । दे॒वाना॑म् । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । तस्य॑ । प्राच्या॑म् । दि॒शि ॥२.४॥
स्वर रहित मन्त्र
बृहतश्च वै सरथन्तरस्य चादित्यानां च विश्वेषां च देवानां प्रियं धाम भवति तस्य प्राच्यां दिशि ॥
स्वर रहित पद पाठबृहत: । च । वै । स: । रथम्ऽतरस्य । च । आदित्यानाम् । च । विश्वेषाम् । च । देवानाम् । प्रियम् । धाम । भवति । तस्य । प्राच्याम् । दिशि ॥२.४॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(बृहतः)प्रवृद्धस्याकाशस्य (च) (वै) (सः) विद्वान् (रथन्तरस्य) रमणीयैर्गुणैस्तरणीयस्यजगतः (च) (आदित्यानाम्) आदीप्यमानानां सूर्याणाम् (च) (विश्वेषाम्) (च) (देवानाम्) गतिमतां लोकानाम् (प्रियम्) (धाम) गृहम् (भवति) (तस्य) चतुर्थ्यांषष्ठी। विदुषे जनाय (प्राच्याम्) अभिमुखीभूतायाम्। पूर्वस्याम् (दिशि) दिशायाम्॥
इस भाष्य को एडिट करें