Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 24
    सूक्त - अध्यात्म अथवा व्रात्य देवता - द्विपदा ब्राह्मी गायत्री छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    श्यै॒तस्य॑ च॒ वैस नौ॑ध॒सस्य॑ च सप्तर्षी॒णां च॒ सोम॑स्य च॒ राज्ञः॑ प्रि॒यं धाम॑ भवति॒ तस्योदी॑च्यां दि॒शि ॥

    स्वर सहित पद पाठ

    श्यै॒तस्य॑ । च॒ । वै । स: । नौ॒ध॒सस्य॑ । च॒ । स॒प्त॒ऽऋ॒षी॒णाम् । च॒ । सोम॑स्य । च॒ । राज्ञ॑: । प्रि॒यम् । धाम॑ । भ॒व॒ति॒ । तस्य॑ । उदी॑च्याम् । दि॒शि ॥२.२४॥


    स्वर रहित मन्त्र

    श्यैतस्य च वैस नौधसस्य च सप्तर्षीणां च सोमस्य च राज्ञः प्रियं धाम भवति तस्योदीच्यां दिशि ॥

    स्वर रहित पद पाठ

    श्यैतस्य । च । वै । स: । नौधसस्य । च । सप्तऽऋषीणाम् । च । सोमस्य । च । राज्ञ: । प्रियम् । धाम । भवति । तस्य । उदीच्याम् । दिशि ॥२.२४॥

    अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 24

    टिप्पणीः - २४−(श्यैतस्य) म० २२।सद्गतिप्रतिपादकस्य वेदज्ञानस्य (नौधसस्य) ऋषीणां हितकरस्य मोक्षज्ञानस्य (सप्तर्षीणाम्) म० २२। सबुद्धिषडिन्द्रियाणाम् (सोमस्य) प्रेरकस्य मनुष्यस्य (राज्ञः) ऐश्वर्यवतः। अन्यद् गतम्-म० ४ ॥

    इस भाष्य को एडिट करें
    Top