अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 22
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
तं श्यै॒तं च॑नौध॒सं च॑ सप्त॒र्षय॑श्च॒ सोम॑श्च॒ राजा॑नु॒व्यचलन् ॥
स्वर सहित पद पाठतम् । श्यै॒तम् । च॒ । नौ॒ध॒सम् । च॒ । स॒प्त॒ऽऋ॒षय॑: । च॒ । सोम॑:। च॒ । राजा॑ । अ॒नु॒ऽव्य᳡चलन् ॥२.२२॥
स्वर रहित मन्त्र
तं श्यैतं चनौधसं च सप्तर्षयश्च सोमश्च राजानुव्यचलन् ॥
स्वर रहित पद पाठतम् । श्यैतम् । च । नौधसम् । च । सप्तऽऋषय: । च । सोम:। च । राजा । अनुऽव्यचलन् ॥२.२२॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 22
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २२−(तम्) व्रात्यम् (श्यैतम्)हृश्याभ्यामितन्। उ० ३।९३। श्यैङ् गतौ-इतन्, श्येत-अण्। श्येतस्य सद्गतेःप्रतिपादकं वेदज्ञानम् (च) (नौधसम्) नुवो धुट् च। उ० ४।२२६। णु स्तुतौ-असि, धुट्च, यद्वा गमेर्डोः। उ० २।६७। नौतेर्डो प्रत्ययः+डुधाञ्-असि, नोधस्-अण्। नोधाऋषिर्भवति नवनं दधाति-निरु० ४।१६। ऋषीणां हितकरं मोक्षज्ञानम् (च) (सप्तर्षयः)अ० ४।११।९। सप्त ऋषयः प्रतिहिताः शरीरे। यजु० ३४।५५। सप्त ऋषयः षडिन्द्रियाणिविद्या सप्तमी-निरु० १२।३७। त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धयः (च) (सोमः)प्रेरको मनुष्यः (च) (राजा) ऐश्वर्यवान् (अनुव्यचलन्) अनुसृत्य विचरितवन्तः ॥
इस भाष्य को एडिट करें