अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 5
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदार्ची जगती
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
श्र॒द्धापुं॑श्च॒ली मि॒त्रो मा॑ग॒धो वि॒ज्ञानं॒ वासोऽह॑रु॒ष्णीषं॒ रात्री॒ केशा॒ हरि॑तौप्रव॒र्तौ क॑ल्म॒लिर्म॒णिः ॥
स्वर सहित पद पाठश्र॒ध्दा । पुं॒श्च॒ली । मि॒त्र: । मा॒ग॒ध: । वि॒ऽज्ञान॑म् । वास॑: । अह॑: । उ॒ष्णीष॑म् । रात्री॑ । केशा॑: । हरि॑तौ । प्र॒ऽव॒र्तौ । क॒ल्म॒लि: । म॒णि: ॥२.५॥
स्वर रहित मन्त्र
श्रद्धापुंश्चली मित्रो मागधो विज्ञानं वासोऽहरुष्णीषं रात्री केशा हरितौप्रवर्तौ कल्मलिर्मणिः ॥
स्वर रहित पद पाठश्रध्दा । पुंश्चली । मित्र: । मागध: । विऽज्ञानम् । वास: । अह: । उष्णीषम् । रात्री । केशा: । हरितौ । प्रऽवर्तौ । कल्मलि: । मणि: ॥२.५॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(श्रद्धा) श्रिञ्सेवायाम्, श्रिय दाहे, श्री पाके वा-डति+डुधाञ् धारणपोषणयोः-अङ्, टाप्। इच्छा।श्रद्धा संप्रत्ययः स्पृहा-अमर० २३।१०२। (पुंश्चली) पुंस्सु अन्यपुरुषेषुचलतीति। पुंस्+चल गतौ-अच्, ङीष्। व्यभिचारिणी कुलटेव घृणिता (मित्रः) स्नेहः (मागधः) मगि गतौ-घञ्+धा-क, पृषोदरादिरूपम्। स्तुतिपाठको यथा (विज्ञानम्) विवेकः (वासः) वस्त्रं यथा (अहः) दिनम् (उष्णीषम्) उष्ण+ईष हिंसायाम्-क, शकन्ध्वादिरूपम् तापनिवारकं शिरोवेष्टनवस्त्रं यथा (रात्री) (केशाः) (हरितौ)धारणाकर्षणगुणौ (प्रवर्तौ) वृतु वर्तने-अच्। द्वे वर्तुले कुण्डले। कर्णभूषणे (कल्मलिः) अर्तिस्तुसुहु०। उ० १।१४०। कल गतौ-मन्+ला दाने-कि। गतिदात्रीतारादीप्तिः (मणिः) मणिभूषणं यथा ॥
इस भाष्य को एडिट करें