अथर्ववेद - काण्ड 15/ सूक्त 2/ मन्त्र 14
सूक्त - अध्यात्म अथवा व्रात्य
देवता - साम्नी पङ्क्ति,पदपङ्क्ति,त्रिपदा प्राजापत्या त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
अ॑मावा॒स्या चपौर्णमा॒सी च॑ परिष्क॒न्दौ मनो॑ विप॒थम्। मा॑त॒रिश्वा॑ च॒ पव॑मानश्च विपथवा॒हौवा॒तः सार॑थी रे॒ष्मा प्र॑तो॒दः। की॒र्तिश्च॒ यश॑श्च पुरःस॒रावैनं॑की॒र्तिर्ग॑च्छ॒त्या यशो॑ गच्छति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठअ॒मा॒ऽवा॒स्या᳡ । च॒ । पौ॒र्ण॒ऽमा॒सी । च॒ । प॒रि॒ऽस्क॒न्दौ । मन॑: । वि॒ऽप॒थम् । मा॒त॒रिश्वा॑ । च॒ । पव॑मान: । च॒ । वि॒प॒थ॒ऽवा॒हौ । वात॑: । सार॑थि: । रे॒ष्मा । प्र॒ऽतो॒द: । की॒र्ति: । च॒ । यश॑: । च॒ । पु॒र॒:ऽस॒रौ । आ । ए॒न॒म् । की॒र्ति: । ग॒च्छ॒ति॒ । आ । यश॑: । ग॒च्छ॒ति॒ । य: । ए॒वम् । वेद॑ ।॥२.१४॥
स्वर रहित मन्त्र
अमावास्या चपौर्णमासी च परिष्कन्दौ मनो विपथम्। मातरिश्वा च पवमानश्च विपथवाहौवातः सारथी रेष्मा प्रतोदः। कीर्तिश्च यशश्च पुरःसरावैनंकीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥
स्वर रहित पद पाठअमाऽवास्या । च । पौर्णऽमासी । च । परिऽस्कन्दौ । मन: । विऽपथम् । मातरिश्वा । च । पवमान: । च । विपथऽवाहौ । वात: । सारथि: । रेष्मा । प्रऽतोद: । कीर्ति: । च । यश: । च । पुर:ऽसरौ । आ । एनम् । कीर्ति: । गच्छति । आ । यश: । गच्छति । य: । एवम् । वेद ।॥२.१४॥
अथर्ववेद - काण्ड » 15; सूक्त » 2; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(अमावास्या) अमा सह चन्द्रार्कौ वसतोयत्र तिथौ सा, अमा+वस निवासे-आधारे ण्यत्, टाप्। कृष्णपक्षशेषतिथिः अन्धकारः।अविद्या (पौर्णमासी) पूर्णो मासश्चन्द्रौ वर्तते यस्यां तिथौ सा। पूर्णमासादण्।वा० पा० ४।२।३५। पूर्णमास-अण्। शुक्लपक्षान्तिमतिथिः प्रकाशः। विद्या। अन्यत्पूर्ववत्-म० ६ ॥
इस भाष्य को एडिट करें