अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 11
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - आत्मा सूक्त
अप॑श्यं गो॒पाम॑नि॒पद्य॑मान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम्। स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ॥
स्वर सहित पद पाठअप॑श्यम् । गो॒पाम् । अ॒नि॒ऽपद्य॑मानाम् । आ । च॒ । परा॑ । च॒ । प॒थिऽभि॑: । चर॑न्तम् । स: । स॒ध्रीची॑: । स: । विषू॑ची: । वसा॑न: । आ । व॒री॒व॒र्ति॒ । भुव॑नेषु । अ॒न्त: ॥१५.११॥
स्वर रहित मन्त्र
अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम्। स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥
स्वर रहित पद पाठअपश्यम् । गोपाम् । अनिऽपद्यमानाम् । आ । च । परा । च । पथिऽभि: । चरन्तम् । स: । सध्रीची: । स: । विषूची: । वसान: । आ । वरीवर्ति । भुवनेषु । अन्त: ॥१५.११॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(अपश्यम्) अहं दृष्टवान् (गोपाम्) अ० ३।८।४। गां भूमिं वाचं वा पातीति तं परमेश्वरम् (अनिपद्यमानम्) पद गतौ-शानच्। नाधः पतन्तम्। अचलम् (आ चरन्तम्) समीपे प्राप्नुवन्तम् (च) (परा) पराचरन्तम्। दूरे प्राप्नुवन्तम् (च) (पथिभिः) ज्ञानमार्गैः (सः) परमेश्वरः (सध्रीचीः) अ० ६।८८।३। सहाञ्चनाः सह वर्तमाना दिशः (सः) (विषूचीः) अ० १।१९।१। विष्वञ्चनाः। नाना वर्तमानाः प्रजाः (वसानः) अ० ४।८।३। आच्छादयन् (आ) समन्तात् (वरीवर्ति) रीगृदुपधस्य च। पा० ७।४।९०। वृतु वर्तने-यङ्लुक्, रीक्। निरन्तरं वर्तते (भुवनेषु) लोकेषु (अन्तः) मध्ये ॥
इस भाष्य को एडिट करें