Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 16
    सूक्त - ब्रह्मा देवता - गौः, विराट्, अध्यात्मम् छन्दः - त्रिष्टुप् सूक्तम् - आत्मा सूक्त

    अपा॒ङ्प्राङे॑ति स्व॒धया॑ गृभी॒तोऽम॑र्त्यो॒ मर्त्ये॑ना॒ सयो॑निः। ता शश्व॑न्ता विषू॒चीना॑ वि॒यन्ता॒ न्यन्यं चि॒क्युर्न नि चि॑क्युर॒न्यम् ॥

    स्वर सहित पद पाठ

    अपा॑ङ् । प्राङ् । ए॒ति॒ । स्व॒धया॑ । गृ॒भी॒त: । अम॑र्त्य: । मर्त्ये॑न । सऽयो॑नि: । ता । शश्व॑न्ता । वि॒षू॒चीना॑ । वि॒ऽयन्ता॑ । नि । अ॒न्यम् । चि॒क्यु: । न । नि । चि॒क्यु॒: । अ॒न्यम् ॥१५.१६॥


    स्वर रहित मन्त्र

    अपाङ्प्राङेति स्वधया गृभीतोऽमर्त्यो मर्त्येना सयोनिः। ता शश्वन्ता विषूचीना वियन्ता न्यन्यं चिक्युर्न नि चिक्युरन्यम् ॥

    स्वर रहित पद पाठ

    अपाङ् । प्राङ् । एति । स्वधया । गृभीत: । अमर्त्य: । मर्त्येन । सऽयोनि: । ता । शश्वन्ता । विषूचीना । विऽयन्ता । नि । अन्यम् । चिक्यु: । न । नि । चिक्यु: । अन्यम् ॥१५.१६॥

    अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 16

    टिप्पणीः - १६−(अपाङ्) अ० ३।३।६। अपगतः। अधोगतः (प्राङ्) अ० ३।४।१। ऊर्ध्वगतः (एति) गच्छति (स्वधया) म० ८। स्वधारणशक्त्या (गृभीतः) गृहीतः (अमर्त्यः) अमरणस्वभावो जीवः (मर्त्येन) छान्दसो दीर्घः। मरणधर्मणा देहेन (सयोनिः) समानस्थानः (ता) तौ मर्त्यामर्त्यौ शरीरजीवौ (शश्वन्ता) संश्चत्तृपद्वेहत्। उ० २।८५। टुओश्वि गतिवृद्ध्योः-अति, द्विर्वचनम्, निपातनाद् रूपसिद्धिः। शश्वद्गामिनौ (विषूचीना) अ० ३।७।१। नानागामिनौ (वियन्ता) एतेः-शतृ। विप्रकृष्टदेशगामिनौ (नि) निश्चयेन (अन्यम्) जीवम् (चिक्युः) कि ज्ञाने-लिट्। ज्ञातवन्तः (न) निषेधे (नि चिक्युः) विभाषा चेः। पा० ७।३।५८। चिनोतेर्लिटि अभ्यासादुत्तरस्य कुत्वम्। निश्चितवन्तः (अन्यम्) देहम् ॥

    इस भाष्य को एडिट करें
    Top