अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 19
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - आत्मा सूक्त
ऋ॒चः प॒दं मात्र॑या क॒ल्पय॑न्तोऽर्ध॒र्चेन॑ चाक्लृपु॒र्विश्व॒मेज॑त्। त्रि॒पाद्ब्रह्म॑ पुरु॒रूपं॒ वि त॑ष्ठे॒ तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः ॥
स्वर सहित पद पाठऋ॒च: । प॒दम् । मात्र॑या । क॒ल्पय॑न्त: । अ॒र्ध॒ऽऋ॒चेन॑ । च॒क्लृ॒प॒: । विश्व॑म् । एज॑त् । त्रि॒ऽपात् । ब्रह्म॑ । पु॒रु॒ऽरूप॑म् । वि । त॒स्थे॒ । तेन॑ । जी॒व॒न्ति॒ । प्र॒ऽदिश॑: । चत॑स्र: ॥१५.१९॥
स्वर रहित मन्त्र
ऋचः पदं मात्रया कल्पयन्तोऽर्धर्चेन चाक्लृपुर्विश्वमेजत्। त्रिपाद्ब्रह्म पुरुरूपं वि तष्ठे तेन जीवन्ति प्रदिशश्चतस्रः ॥
स्वर रहित पद पाठऋच: । पदम् । मात्रया । कल्पयन्त: । अर्धऽऋचेन । चक्लृप: । विश्वम् । एजत् । त्रिऽपात् । ब्रह्म । पुरुऽरूपम् । वि । तस्थे । तेन । जीवन्ति । प्रऽदिश: । चतस्र: ॥१५.१९॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 19
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १९−(ऋचः) वेदवाण्याः सकाशात् (पदम्) प्रापणीयं ब्रह्म (मात्रया) अ० ३।२४।६। माङ् माने शब्दे च−त्रन् टाप्। सूक्ष्मरूपेण (कल्पयन्तः) विचारयन्तः (अर्धर्चेन) ऋधु वृद्धौ-घञ्+ऋच स्तुतौ−क्विप्। ऋक्पूरब्। पा० ५।४।७४। अ प्रत्ययः। अर्धया समृद्धया वेदविद्यया (चक्लृपुः) विचारितवन्तः (विश्वम्) जगत् (एजत्) एजयत् कम्पयत् (त्रिपात्) त्रिषु कालेषु त्रिलोक्यां वा पादो यस्य तत् (ब्रह्म) प्रवृद्धः परमात्मा (पुरुरूपम्) बहुसौन्दर्ययुक्तम् (वि) विविधम् (तस्थे) तस्थौ (तेन) ब्रह्मणा (जीवन्ति) प्राणान् धारयन्ति (प्रदिशः) प्रकृष्टा दिशः (चतस्रः) ॥
इस भाष्य को एडिट करें