Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 23
    सूक्त - ब्रह्मा देवता - मित्रावरुणौ छन्दः - त्रिष्टुप् सूक्तम् - आत्मा सूक्त

    अ॒पादे॑ति प्रथ॒मा प॒द्वती॑नां॒ कस्तद्वां॑ मित्रावरु॒णा चि॑केत। गर्भो॑ भा॒रं भ॑र॒त्या चि॑दस्या ऋ॒तं पिप॑र्त्यनृ॑तं॒ नि पा॑ति ॥

    स्वर सहित पद पाठ

    अ॒पात् । ए॒ति॒ । प्र॒थ॒मा । प॒त्ऽवती॑नाम् । क: । तत् । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । आ । चि॒के॒त॒ । गर्भ॑: । भा॒रम् । भ॒र॒ति॒ । आ । चि॒त् । अ॒स्या॒: । ऋ॒तम् । पिप॑र्ति । अनृ॑तम् । नि । पा॒ति॒ ॥१५.२३॥


    स्वर रहित मन्त्र

    अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत। गर्भो भारं भरत्या चिदस्या ऋतं पिपर्त्यनृतं नि पाति ॥

    स्वर रहित पद पाठ

    अपात् । एति । प्रथमा । पत्ऽवतीनाम् । क: । तत् । वाम् । मित्रावरुणा । आ । चिकेत । गर्भ: । भारम् । भरति । आ । चित् । अस्या: । ऋतम् । पिपर्ति । अनृतम् । नि । पाति ॥१५.२३॥

    अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 23

    टिप्पणीः - २३−(अपात्) अविद्यमानाः पादा विभागा यस्याः सा वेदविद्या (एति) प्राप्नोति (प्रथमा) आदिमा (पद्वतीनाम्) प्रशस्ताः पादा विभागा विद्यन्ते यासां तासाम् (कः) (तत्) ज्ञानम् (वाम्) युवयोर्मध्ये (मित्रावरुणा) मित्रवरौ। अध्यापकाध्याप्यौ (चिकेत) कित ज्ञाने-लिट्। ज्ञातवान् (गर्भः) यो गृह्णाति सः। विद्याग्राहकः (भारम्) पोषणगुणम् (भरति) धरति (आ) समन्तात् (चित्) अपि (अस्याः) विद्यायाः (ऋतम्) सत्यम् (पिपर्ति) पूरयति (अनृतम्) मिथ्याकर्म (नि) नीचैः (पाति) रक्षति ॥

    इस भाष्य को एडिट करें
    Top