अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 12
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - आत्मा सूक्त
द्यौर्नः॑ पि॒ता ज॑नि॒ता नाभि॒रत्र॒ बन्धु॑र्नो मा॒ता पृ॑थि॒वी म॒हीयम्। उ॑त्ता॒नयो॑श्च॒म्वो॒र्योनि॑र॒न्तरत्रा॑ पि॒ता दु॑हि॒तुर्गर्भ॒माधा॑त् ॥
स्वर सहित पद पाठद्यौ: । न॒: । पि॒ता । ज॒नि॒ता । नाभि॑: । अत्र॑ । बन्धु॑: । न॒: । मा॒ता । पृ॒थि॒वी । म॒ही । इ॒यम् । उ॒त्ता॒नयो॑: । च॒म्वो᳡: । योनि॑: । अ॒न्त: । अत्र॑ । पि॒ता । दु॒हि॒तु: । गर्भ॑म् । आ । अ॒घा॒त् ॥१५.१२॥
स्वर रहित मन्त्र
द्यौर्नः पिता जनिता नाभिरत्र बन्धुर्नो माता पृथिवी महीयम्। उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात् ॥
स्वर रहित पद पाठद्यौ: । न: । पिता । जनिता । नाभि: । अत्र । बन्धु: । न: । माता । पृथिवी । मही । इयम् । उत्तानयो: । चम्वो: । योनि: । अन्त: । अत्र । पिता । दुहितु: । गर्भम् । आ । अघात् ॥१५.१२॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(द्यौः) अ० २।१२।६। प्रकाशमानः सूर्यः (नः) अस्माकम् (पिता) पिता पालयिता-वा-निरु० ४।२१। (जनिता) जनयिता (नाभिः) अ० १।१३।३। नाभिः सन्नहनान्नाभ्या सन्नद्धा गर्भा जायन्त इत्याहुः-निरु० ४।२१। तुन्दकूपीचक्रं यथा (अत्र) सूर्ये (बन्धुः) सम्बन्धी (नः) (माता) जननी यथा (मही) अ० १।१७।२। महती (इयम्) (उत्तानयोः) अ० ९।९।१४। उत्तमतया विस्तृतयोः (चम्वोः) कृषिचमितनि०। उ० १।८०। चमु अदने−ऊ। चम्वौ द्यावापृथिव्यौ-निघ० ३।३०। चमन्त्यनयोः। द्यावापृथिव्योः। सेनयोरिव-दयानन्दभाष्ये (योनिः) गृहम्-निघ० ३।४। अवकाशः (अन्तः) मध्ये (अत्र) योनौ (पिता) पालकः सूर्यः पर्जन्यो वा (दुहितुः) अ० ३।१०।१३। दुह प्रपूरणे−तृच्। दुहिता दुर्हिता दूरे हिता दोग्धेर्वा-निरु० ३।४। दोग्धि प्रपूरयतीति दुहिता। रसानां प्रपूरयित्र्याः। पृथिव्याः-निरु० ४।२१। दूरे निहिताया भूम्याः−इति सायणः (गर्भम्) सर्वोत्पादनसमर्थं वृष्ट्युदकलक्षणम्−इति सायणः। सर्वभूतगर्भोत्पत्तिहेतुभूतोदकम्−इति दुर्गाचार्यः-निरुक्तटीकायाम्−४।२१। वीर्यरूपं जलम् (आ) समन्तात् (अधात्) धृतवान् ॥
इस भाष्य को एडिट करें