Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 27
    सूक्त - ब्रह्मा देवता - गौः, विराट्, अध्यात्मम् छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - आत्मा सूक्त

    च॒त्वारि॒ वाक्परि॑मिता प॒दानि॒ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑। गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति तु॒रीयं॑ वा॒चो म॑नु॒ष्या वदन्ति ॥

    स्वर सहित पद पाठ

    च॒त्वारि॑ । वाक् । परि॑ऽमिता । प॒दानि॑ । तानि॑ । वि॒दु॒: । ब्रा॒ह्म॒णा: । ये । म॒नी॒षिण॑: । गुहा॑ । त्रीणि॑ । निऽहि॑ता । न । इ॒ङ्ग॒य॒न्ति॒ । तु॒रीय॑म् । वा॒च: । म॒नु॒ष्या᳡: । व॒द॒न्ति॒ ॥१५.२७॥


    स्वर रहित मन्त्र

    चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः। गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥

    स्वर रहित पद पाठ

    चत्वारि । वाक् । परिऽमिता । पदानि । तानि । विदु: । ब्राह्मणा: । ये । मनीषिण: । गुहा । त्रीणि । निऽहिता । न । इङ्गयन्ति । तुरीयम् । वाच: । मनुष्या: । वदन्ति ॥१५.२७॥

    अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 27

    टिप्पणीः - २७−(चत्वारि) चतुर्विधानि परा पश्यन्ती मध्यमा वैखरीति। एकैव नादात्मिका वाक् मूलाधारनाभिप्रदेशाद् उदिता सती परेत्युच्यते, सैव हृदयगामिनी पश्यन्तीत्युच्यते, सैव बुद्धिं गता विवक्षां प्राप्ता मध्यमेत्युच्यते, यदा सैव मुखे स्थिता ताल्वोष्ठादिव्यापारेण बहिर्निर्गच्छति तदा वैखरीत्युच्यते। (वाक्) वाचः (परिमिता) परिमाणयुक्तानि (पदानि) वेदितुं योग्यानि प्रयोजनानि (तानि) (विदुः) जानन्ति। (ब्राह्मणाः) अ० २।६।३। ब्रह्मज्ञानिनः (ये) (मनीषिणः) अ० ३।५।६। मननशीलाः। मेधाविनः-निघ० ३।१५। (गुहा) गुहायाम्। गुप्तदेशे (त्रीणि) परापश्यन्तीमध्यमारूपाणि (निहिता) स्थापितानि (न) निषेधे (ईङ्गयन्ति) इङ्गयन्ति। चेष्टन्ते। प्रकाशन्ते (तुरीयम्) चतुर्थं पदम्। वैखरीरूपम् (वाचः) वाण्याः, (मनुष्याः) साधारणजनाः (वदन्ति) उच्चारयन्ति ॥

    इस भाष्य को एडिट करें
    Top