अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 28
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - आत्मा सूक्त
इन्द्रं॑ मि॒त्रं वरु॑णम॒ग्निमा॑हु॒रथो॑ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न्। ए॒कं सद्विप्रा॑ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा॑तरिश्वानमाहुः ॥
स्वर सहित पद पाठइन्द्र॑म् । मि॒त्रम् । वरु॑णम् । अ॒ग्निम् । आ॒हु॒: । अथो॒ इति॑ । दि॒व्य: । स: । सु॒ऽप॒र्ण: । ग॒रुत्मा॑न् । एक॑म् । सत् । विप्रा॑: । ब॒हु॒ऽधा । व॒द॒न्ति॒ । अ॒ग्निम् । य॒मम् । मा॒त॒रिश्वा॑नम् । आ॒हु॒: ॥१५.२८॥
स्वर रहित मन्त्र
इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान्। एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥
स्वर रहित पद पाठइन्द्रम् । मित्रम् । वरुणम् । अग्निम् । आहु: । अथो इति । दिव्य: । स: । सुऽपर्ण: । गरुत्मान् । एकम् । सत् । विप्रा: । बहुऽधा । वदन्ति । अग्निम् । यमम् । मातरिश्वानम् । आहु: ॥१५.२८॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 28
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २८−(इन्द्रम्) परमैश्वर्यवन्तं परमात्मानम् (मित्रम्) स्नेहशालिनम् (वरुणम्) श्रेष्ठम् (अग्निम्) सर्वव्यापकम् (आहुः) कथयन्ति तत्त्वज्ञाः (अथो) अपि च (दिव्यः) दिवि प्रकाशे भवः (सः) (सुपर्णः) अ० १।२४।१। शोभनपालनः (गरुत्मान्) मृग्रोरुतिः। उ० १।९४। गॄ शब्दे स्तुतौ च−उति, मतुप्। गृणातिरर्चतिकर्मा-निघ० ३।१४। गृत्स इति मेधाविनाम गृणातेः स्तुतिकर्मणः-निरु० ९।५। गरुत्मान् गरणवान् गुर्वात्मा महात्मेति वा-निरु० ७।१८। स्तुतिमान्। महात्मा (एकम्) अद्वितीयम् (सत्) सत्ताविशिष्टम्। विद्यमानं ब्रह्म (विप्राः) मेधाविनः (बहुधा) अनेकप्रकारेण (वदन्ति) (अग्निम्) सर्वव्यापकं परमात्मानम् (यमम्) नियन्तारम् (मातरिश्वानम्) अ० ५।१०।८। मातरि अन्तरिक्षे श्वसन्तं चेष्टमानम् (आहुः) कथयन्ति ॥
इस भाष्य को एडिट करें