अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 6
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - आत्मा सूक्त
गौर॑मीमेद॒भि व॒त्सं मि॒षन्तं॑ मू॒र्धानं॒ हिङ्ङ॑कृणोन्मात॒वा उ॑। सृक्वा॑णं घ॒र्मम॒भि वा॑वशा॒ना मिमा॑ति मा॒युं पय॑ते॒ पयो॑भिः ॥
स्वर सहित पद पाठगौ: । अ॒मी॒मे॒त् । अ॒भि । व॒त्सम् । मि॒षन्त॑म् । मू॒र्धान॑म् । हिङ् । अ॒कृ॒णो॒त् । मात॒वै । ऊं॒ इति॑ । सृका॑णम् । घ॒र्मम् । अ॒भि । वा॒व॒शा॒ना । मिमा॑ति । मा॒युम् । पय॑ते । पय॑:ऽभि: ॥१५.६॥
स्वर रहित मन्त्र
गौरमीमेदभि वत्सं मिषन्तं मूर्धानं हिङ्ङकृणोन्मातवा उ। सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥
स्वर रहित पद पाठगौ: । अमीमेत् । अभि । वत्सम् । मिषन्तम् । मूर्धानम् । हिङ् । अकृणोत् । मातवै । ऊं इति । सृकाणम् । घर्मम् । अभि । वावशाना । मिमाति । मायुम् । पयते । पय:ऽभि: ॥१५.६॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(गौः) गौर्वाक्-निघ० १।११। ब्रह्मवाणी (अमीमेत्) अ० ९।९।९। डुमिञ् प्रक्षेपणे-लङ्। अमिनोत्। विस्तारितवती (अभि) सर्वतः (वत्सम्) वस निवासे-स। निवासस्थानं संसारम् (मिषन्तम्) मिष स्पर्धायाम्-शतृ। चक्षुर्मीलनं कुर्वन्तम्। प्रलये वर्तमानम् (मूर्धानम्) श्वन्नुक्षन्पूषन्०। उ० १।१५९। मुर्वी बन्धने-कनिन्, उकारस्य-दीर्घः, वस्य धः। लोकानां बन्धकमाकर्षकं मस्तकरूपं सूर्यम् (हिङ्) अ० ९।६(५)।१। हिवि प्रीणने−क्विन्। तृप्तिकर्म (अकृणोत्) कृतवती (मातवै) तुमर्थे सेसेनसे०। पा० ३।४।९। माङ् माने शब्दे-च-तवै। निर्मातुम् (उ) एव (सृक्वाणम्) शीङ्क्रुशिरुहि०। उ० ४।११४। सृज विसर्गे-क्वनिप्। चोः कुः। वा० ८।२।३०। कुत्वम्। स्रष्टारम् (घर्मम्) अ० ४।१।२। घृ सेचनदीप्त्योः-मक्। प्रकाशमानं परमात्मानम्। अन्यद् व्याख्यातम्-अ० ९।१।८ ॥
इस भाष्य को एडिट करें