अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 17
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - जगती
सूक्तम् - आत्मा सूक्त
स॒प्तार्ध॑ग॒र्भा भुव॑नस्य॒ रेतो॒ विष्णो॑स्तिष्ठन्ति प्र॒दिशा॒ विध॑र्मणि। ते धी॒तिभि॒र्मन॑सा॒ ते वि॑प॒श्चितः॑ परि॒भुवः॒ परि॑ भवन्ति वि॒श्वतः॑ ॥
स्वर सहित पद पाठस॒प्त । अ॒र्ध॒ऽग॒र्भा: । भुव॑नस्य । रेत॑: । विष्णो॑: । ति॒ष्ठ॒न्ति॒ । प्र॒ऽदिशा॑ । विऽध॑र्मणि । ते । धी॒तिऽभि॑: । मन॑सा । ते । वि॒प॒:ऽचित॑: । प॒रि॒ऽभुव॑: । परि॑ । भ॒व॒न्ति॒ । वि॒श्वत॑: ॥१५.१७॥
स्वर रहित मन्त्र
सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि। ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥
स्वर रहित पद पाठसप्त । अर्धऽगर्भा: । भुवनस्य । रेत: । विष्णो: । तिष्ठन्ति । प्रऽदिशा । विऽधर्मणि । ते । धीतिऽभि: । मनसा । ते । विप:ऽचित: । परिऽभुव: । परि । भवन्ति । विश्वत: ॥१५.१७॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−(सप्त) (अर्धगर्भाः) ऋधु वृद्धौ-घञ्। ऋद्धः प्रवृद्धो गर्भ उत्पादनसामर्थ्यं येषां ते महत्तत्त्वाहंकारपञ्चभूतपरमाणवः (भुवनस्य) संसारस्य (रेतः) वीर्यम् (विष्णोः) व्यापकस्य परमेश्वरस्य (तिष्ठन्ति) वर्तन्ते (प्रदिशा) आज्ञया (विधर्मणि) विविधधारणव्यापारे (ते) महत्तत्त्वादयः (धीतिभिः) धारणशक्तिभिः (मनसा) विचारेण (ते) वीप्सायां द्विर्वचनम् (विपश्चितः) अ० ६।५२।३। मेधाविनः परमेश्वरस्य (परिभुवः) परिभावकान्। आच्छादकान् शरीरादिलोकान् (विश्वतः) सर्वतः (परिभवन्ति) परितः प्राप्नुवन्ति। आच्छादयन्ति ॥
इस भाष्य को एडिट करें