Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 7
    सूक्त - ब्रह्मा देवता - गौः, विराट्, अध्यात्मम् छन्दः - जगती सूक्तम् - आत्मा सूक्त

    अ॒यं स शि॑ङ्क्ते॒ येन॒ गौर॒भीवृ॑ता॒ मिमा॑ति मा॒युं ध्व॒सना॒वधि॑ श्रि॒ता। सा चि॒त्तिभि॒र्नि हि च॒कार॒ मर्त्या॑न्वि॒द्युद्भव॑न्ती॒ प्रति॑ व॒व्रिमौ॑हत ॥

    स्वर सहित पद पाठ

    अ॒यम् । स: । शि॒ङ्क्ते॒ । येन॑ । गौ: । अ॒भिऽवृ॑ता । मिमा॑ति । मा॒युम् । ध्व॒सनौ॑ । अध‍ि॑ । श्रि॒ता । सा । चि॒त्तिऽभि॑: । नि । हि । च॒कार॑ । मर्त्या॑न् । वि॒ऽद्युत् । भव॑न्ती । प्रति॑ । व॒व्रिम् । औ॒ह॒त॒ ॥१५.७॥


    स्वर रहित मन्त्र

    अयं स शिङ्क्ते येन गौरभीवृता मिमाति मायुं ध्वसनावधि श्रिता। सा चित्तिभिर्नि हि चकार मर्त्यान्विद्युद्भवन्ती प्रति वव्रिमौहत ॥

    स्वर रहित पद पाठ

    अयम् । स: । शिङ्क्ते । येन । गौ: । अभिऽवृता । मिमाति । मायुम् । ध्वसनौ । अध‍ि । श्रिता । सा । चित्तिऽभि: । नि । हि । चकार । मर्त्यान् । विऽद्युत् । भवन्ती । प्रति । वव्रिम् । औहत ॥१५.७॥

    अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 7

    टिप्पणीः - ७−(अयम्) समीपस्थः परमेश्वरः (सः) दूरस्थः (शिङ्क्ते) शिजि अव्यक्ते शब्दे। गर्जनं यथा शब्दं करोति (येन) परमेश्वरेण (गौः) पृथिवी-निघ० १।१। (अभिवृता) वृञ् वरणे-क्त। सर्वतो वेष्टिता (मिमाति) अ० ९।१।८। निर्माति। करोति (मायुम्) अ० ९।१।८। माङ् माने−उण्, युक् च। परिमितं मार्गम्-दयानन्दभाष्ये (ध्वसनौ) अर्त्तिसृधृ०। उ० २।१०२। ध्वंसु अवस्रंसने गतौ च-अनि, अनुनासिकलोपः। अधऊर्ध्वमध्यपतनार्थे परिधौ-दयानन्दभाष्ये (अधि) उपरि (श्रिता) स्थिता (सा) प्रत्यक्षा (चित्तिभिः) चिती संज्ञाने वा चित संचेतने-क्तिन्। संचेतनैः संज्ञानैः सह (नि) निरन्तरम् (हि) एव (चकार) कृतवती (मर्त्यान्) मनुष्यान् (विद्युत्) विद्योतमाना तडित् (भवन्ती) व्याप्नुवन्ती (प्रति) प्रत्यक्षम् (वव्रिम्) अ० ९।९।५। वरणीयं रूपम् (औहत) ऊह वितर्के-लङ्। विचारणीयं कृतवती ॥

    इस भाष्य को एडिट करें
    Top