अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 24
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - चतुष्पदापुरस्कृतिभुरिगतिजगती
सूक्तम् - आत्मा सूक्त
वि॒राड्वाग्वि॒राट्पृ॑थि॒वी वि॒राड॒न्तरि॑क्षं वि॒राट्प्र॒जाप॑तिः। वि॒राण्मृ॒त्युः सा॒ध्याना॑मधिरा॒जो ब॑भूव॒ तस्य॑ भू॒तं भव्यं॒ वशे॒ स मे॑ भू॒तं भव्यं॒ वशे॑ कृणोतु ॥
स्वर सहित पद पाठवि॒ऽराट् । वाक् । वि॒ऽराट् । पृ॒थि॒वी । वि॒ऽराट् । अ॒न्तरि॑क्षम् । वि॒ऽराट् । प्र॒जाऽप॑ति: । वि॒ऽराट् । मृ॒त्यु: । सा॒ध्याना॑म् । अ॒धि॒ऽरा॒ज: । ब॒भू॒व॒ । तस्य॑ । भू॒तम् । भव्य॑म् । वशे॑ । स: । मे॒ । भू॒तम् । भव्य॑म् । वशे॑ । कृ॒णो॒तु॒॥१५.२४॥
स्वर रहित मन्त्र
विराड्वाग्विराट्पृथिवी विराडन्तरिक्षं विराट्प्रजापतिः। विराण्मृत्युः साध्यानामधिराजो बभूव तस्य भूतं भव्यं वशे स मे भूतं भव्यं वशे कृणोतु ॥
स्वर रहित पद पाठविऽराट् । वाक् । विऽराट् । पृथिवी । विऽराट् । अन्तरिक्षम् । विऽराट् । प्रजाऽपति: । विऽराट् । मृत्यु: । साध्यानाम् । अधिऽराज: । बभूव । तस्य । भूतम् । भव्यम् । वशे । स: । मे । भूतम् । भव्यम् । वशे । कृणोतु॥१५.२४॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 24
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २४−(विराट्) अ० ८।९।१। राजृ दीप्तौ ऐश्वर्ये च−क्विप्। विविधैश्वर्यवान् परमात्मा (वाक्) विद्यारूपः (विराट्) (पृथिवी) पृथिवीवद् विस्तृतः (विराट्) (अन्तरिक्षम्) आकाशवद् व्यापकः (विराट्) (प्रजापतिः) सूर्यवत् प्रजापालकः (विराट्) (मृत्युः) दुष्टानां मारकः (साध्यानाम्) अ० ७।५।१। परोपकारसाधकानां साधूनाम् (अधिराजः) अधिपतिः (बभूव) (तस्य) परमेश्वरस्य (भूतम्) अतीतकालः (भव्यम्) भविष्यत्कालः (वशे) अधीनत्वे (सः) (मे) मम (भूतम्) (भव्यम्) (वशे) (कृणोतु) करोतु ॥
इस भाष्य को एडिट करें