Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 26
    सूक्त - ब्रह्मा देवता - गौः, विराट्, अध्यात्मम् छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - आत्मा सूक्त

    त्रयः॑ के॒शिन॑ ऋतु॒था वि च॑क्षते संवत्स॒रे व॑पत॒ एक॑ एषाम्। विश्व॑म॒न्यो अ॑भि॒चष्टे॒ शची॑भि॒र्ध्राजि॒रेक॑स्य ददृशे॒ न रू॒पम् ॥

    स्वर सहित पद पाठ

    त्रय॑: । के॒शिन॑:। ऋ॒तु॒ऽथा । वि । च॒क्ष॒ते॒ । स॒म्ऽव॒त्स॒रे । व॒प॒ते॒ । एक॑: । ए॒षा॒म् । विश्व॑म् । अ॒न्य: । अ॒भि॒ऽचष्टे॑ । शची॑भि: । ध्राजि॑: । एक॑स्य । द॒दृ॒शे॒ । न । रू॒पम् ॥१५.२६॥


    स्वर रहित मन्त्र

    त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम्। विश्वमन्यो अभिचष्टे शचीभिर्ध्राजिरेकस्य ददृशे न रूपम् ॥

    स्वर रहित पद पाठ

    त्रय: । केशिन:। ऋतुऽथा । वि । चक्षते । सम्ऽवत्सरे । वपते । एक: । एषाम् । विश्वम् । अन्य: । अभिऽचष्टे । शचीभि: । ध्राजि: । एकस्य । ददृशे । न । रूपम् ॥१५.२६॥

    अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 26

    टिप्पणीः - २६−(त्रयः) अग्निसूर्यवायवः (केशिनः) काशृ दीप्तौ-अच् घञ् वा ततः−इनि, काशी सन् केशी। केशी केशा रश्मयस्तैस्तद्वान् भवति काशनाद् वा प्रकाशनाद् वा-निरु० १२।२५। प्रकाशवन्तः। स्वगुणज्ञापकाः (ऋतुथा) ऋतुप्रकारेण। काले काले (वि) विविधम् (चक्षते) कर्मण्यर्थे। दृश्यन्ते (संवत्सरे) वर्षे (वपते) उत्पादयति ओषधीः (एकः) पार्थिवाग्निः (एषाम्) त्रयाणां मध्ये (विश्वम्) जगत् (अन्यः) सूर्यः (अभिचष्टे) सर्वतः पश्यति (शचीभिः) अ० ५।११।८। शची कर्मनाम-निघ० २।१। स्वकीयैः प्रकाशवृष्ट्यादिकर्मभिः (ध्राजिः) गतिः (एकस्य) वायोः (ददृशे) दृष्टा (न) निषेधे (रूपम्) वर्णम् ॥

    इस भाष्य को एडिट करें
    Top