Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 21
    सूक्त - ब्रह्मा देवता - गौः, विराट्, अध्यात्मम् छन्दः - पञ्चपदातिशक्वरी सूक्तम् - आत्मा सूक्त

    गौरिन्मि॑माय सलि॒लानि॒ तक्ष॑ती॒ एक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी। अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी॑ स॒हस्रा॑क्षरा॒ भुव॑नस्य प॒ङ्क्तिस्तस्याः॑ समु॒द्रा अधि॒ वि क्ष॑रन्ति ॥

    स्वर सहित पद पाठ

    गौ: । इत् । मि॒मा॒य॒ । स॒लि॒लानि॑ । तक्ष॑ती । एक॑ऽपदी । द्वि॒ऽपदी॑ । सा । चतु॑:ऽपदी । अ॒ष्टाऽप॑दी । नव॑ऽपदी । ब॒भू॒वुषी॑ । स॒हस्र॑ऽअक्षरा । भुव॑नस्य । प॒ङ्क्ति: । तस्या॑: । स॒मु॒द्रा: । अधि॑ । वि । क्ष॒र॒न्ति॒ ॥१५.२१॥


    स्वर रहित मन्त्र

    गौरिन्मिमाय सलिलानि तक्षती एकपदी द्विपदी सा चतुष्पदी। अष्टापदी नवपदी बभूवुषी सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति ॥

    स्वर रहित पद पाठ

    गौ: । इत् । मिमाय । सलिलानि । तक्षती । एकऽपदी । द्विऽपदी । सा । चतु:ऽपदी । अष्टाऽपदी । नवऽपदी । बभूवुषी । सहस्रऽअक्षरा । भुवनस्य । पङ्क्ति: । तस्या: । समुद्रा: । अधि । वि । क्षरन्ति ॥१५.२१॥

    अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 21

    टिप्पणीः - २१−(गौः) ब्रह्मवाणी (इत्) एव (मिमाय) शब्दं कृतवती (सलिलानि) सलिलं बहुनाम-निघ० ३।१। उदकनाम-निघ० १।१२। बहूनि ज्ञानानि समुद्रवद्गम्भीरकर्माणि वा (तक्षती) कुर्वती (एकपदी) संख्यासुपूर्वस्य। पा० ५।४।१३०। पदादेशः। एकेन ब्रह्मणा पदं व्याप्तिर्यस्याः सा (द्विपदी) भूतभविष्यतोर्गतिर्यस्याः सा (सा) गौः (चतुष्पदी) चतुर्वर्गे धर्मार्थकाममोक्षेषु पुरुषार्थेषु पदमधिकारो यस्याः सा (अष्टापदी) अ० ५।१९।७। अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा। ईशित्वं च वशित्वं च तथा कामावसायिता ॥१॥ इति अष्टैश्वर्याणि पदानि प्राप्तव्यानि यथा सा (नवपदी) मनोबुद्धिसहितैः सप्तशीर्षण्यच्छिद्रैः प्राप्या (बभूवुषी) भवतेः-क्वसु, ङीपि वसोः सम्प्रसारणम्। भूतवती (सहस्राक्षरा) अशेः सरः। उ० ३।७०। अशू व्याप्तौ-सर, टाप्। सहस्रेषु असंख्यातेषु पदार्थेषु व्यापनशीला (भुवनस्य) संसारस्य (पङ्क्तिः) पचि व्यक्तिकरणे-क्तिन्। विस्तारशक्तिः (तत्त्वाः) गोः सकाशात् (समुद्राः) समुद्ररूपलोकाः (अधि) अधिकम् (वि) विविधम् (क्षरन्ति) संचलन्ति ॥

    इस भाष्य को एडिट करें
    Top