अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 11
अव॑धी॒त्कामो॒ मम॒ ये स॒पत्ना॑ उ॒रुं लो॒कम॑कर॒न्मह्य॑मेध॒तुम्। मह्यं॑ नमन्तां प्र॒दिश॒श्चत॑स्रो॒ मह्यं॒ षडु॒र्वीर्घृ॒तमा व॑हन्तु ॥
स्वर सहित पद पाठअव॑धीत् । काम॑: । मम॑ । ये । स॒ऽपत्ना॑: । उ॒रुम् । लो॒कम् । अ॒क॒र॒त् । मह्य॑म् । ए॒ध॒तुम् । मह्य॑म् । न॒म॒न्ता॒म् । प्र॒ऽदिश॑: । चत॑स्र: । मह्य॑म् । षट् । उ॒र्वी: । घृ॒तम् । आ । व॒ह॒न्तु॒ ॥२.११॥
स्वर रहित मन्त्र
अवधीत्कामो मम ये सपत्ना उरुं लोकमकरन्मह्यमेधतुम्। मह्यं नमन्तां प्रदिशश्चतस्रो मह्यं षडुर्वीर्घृतमा वहन्तु ॥
स्वर रहित पद पाठअवधीत् । काम: । मम । ये । सऽपत्ना: । उरुम् । लोकम् । अकरत् । मह्यम् । एधतुम् । मह्यम् । नमन्ताम् । प्रऽदिश: । चतस्र: । मह्यम् । षट् । उर्वी: । घृतम् । आ । वहन्तु ॥२.११॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 11
विषय - प्रजापति परमेश्वर और राजा और संकल्प का ‘काम’ पद द्वारा वर्णन।
भावार्थ -
(मम ये सपत्नाः) मेरे जो अन्तः-शत्रुगण हैं उनको (कामः) मेरा प्रबल संकल्प (अवधीत्) मार डाले। वही (उरुं लोकम्) संसार के बड़े भारी लोक, स्थान को (मह्यम्) मेरे (एधतुम्) बढ़ने के लिये (अकरत्) कर दे। (मह्यम्) मेरे आगे (चतस्रः) चारों (प्रदिशः) उपदिशाएं भी (नमन्ताम्) झुक जायं और (षड् उर्वीः) छहों बड़ी दिशाएं मेरे लिए (घृतम्) प्रकाशवान्, पुष्टिकारक पदार्थ (आवहन्तु) प्राप्त कराएँ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः॥ कामो देवता॥ १, ४, ६, ९, १०, १३, १९, २४ अनुष्टुभः। ५ अति जगती। ८ आर्चीपंक्तिः। ११, २०, २३ भुरिजः। १२ अनुष्टुप्। ७, १४, १५ १७, १८, २१, २२ अतिजगत्यः। १६ चतुष्पदा शक्वरीगर्भा पराजगती। पञ्चविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें