अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 6
काम॒स्येन्द्र॑स्य॒ वरु॑णस्य॒ राज्ञो॒ विष्णो॒र्बले॑न सवि॒तुः स॒वेन॑। अ॒ग्नेर्हो॒त्रेण॒ प्र णु॑दे स॒पत्ना॑ञ्छ॒म्बीव॒ नाव॑मुद॒केषु॒ धीरः॑ ॥
स्वर सहित पद पाठकाम॑स्य । इन्द्र॑स्य । वरु॑णस्य । राज्ञ॑: । विष्णो॑: । बले॑न । स॒वि॒तु: । स॒वेन॑ । अ॒ग्ने: । हो॒त्रेण॑ । प्र । नु॒दे॒ । स॒ऽपत्ना॑न् । श॒म्बीऽइ॑व । नाव॑म् । उ॒द॒केषु॑ । धीर॑: ॥२.६॥
स्वर रहित मन्त्र
कामस्येन्द्रस्य वरुणस्य राज्ञो विष्णोर्बलेन सवितुः सवेन। अग्नेर्होत्रेण प्र णुदे सपत्नाञ्छम्बीव नावमुदकेषु धीरः ॥
स्वर रहित पद पाठकामस्य । इन्द्रस्य । वरुणस्य । राज्ञ: । विष्णो: । बलेन । सवितु: । सवेन । अग्ने: । होत्रेण । प्र । नुदे । सऽपत्नान् । शम्बीऽइव । नावम् । उदकेषु । धीर: ॥२.६॥
अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 6
विषय - प्रजापति परमेश्वर और राजा और संकल्प का ‘काम’ पद द्वारा वर्णन।
भावार्थ -
(कामस्य) कान्तिमान्, (इन्द्रस्य) ऐश्वर्यवान्, (वरुणस्य) सब से श्रेष्ठ, सबके वरण करने योग्य (विष्णोः) प्रजा में व्यापक, प्रजा के हृदयों में व्यापक, उनके प्रिय (सवितुः) सबके प्रेरक (राज्ञः) राजा अर्थात् संसार के राजा के (बलेन) बल से और (सवेन) और उनकी सत्य प्रेरणा या आज्ञा से और (अग्नेः होत्रेण) अग्निहोत्र के द्वारा (सपत्नान्) अन्तः-शत्रुओं को मैं (धीरः) धीर होकर (नावम्) नाव को (शम्बी इव) नाव के चलाने वाले कैवट के समान (प्र णुदे) परे हटा दूँ।
टिप्पणी -
‘शम्ब संबन्धने’ (चुरादिः)। शम्बयति संबध्नाति मत्स्यादिकम् अनेनेति शम्बः जालरश्म्यादिः, तद्वान् शम्बी कैवर्त्तः।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः॥ कामो देवता॥ १, ४, ६, ९, १०, १३, १९, २४ अनुष्टुभः। ५ अति जगती। ८ आर्चीपंक्तिः। ११, २०, २३ भुरिजः। १२ अनुष्टुप्। ७, १४, १५ १७, १८, २१, २२ अतिजगत्यः। १६ चतुष्पदा शक्वरीगर्भा पराजगती। पञ्चविंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें