Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 2/ मन्त्र 7
    सूक्त - अथर्वा देवता - कामः छन्दः - जगती सूक्तम् - काम सूक्त

    अध्य॑क्षो वा॒जी मम॒ काम॑ उ॒ग्रः कृ॒णोतु॒ मह्य॑मसप॒त्नमे॒व। विश्वे॑ दे॒वा मम॑ ना॒थं भ॑वन्तु॒ सर्वे॑ दे॒वा हव॒मा य॑न्तु म इ॒मम् ॥

    स्वर सहित पद पाठ

    अधि॑ऽअक्ष: । वा॒जी । मम॑ । काम॑: । उ॒ग्र: । कृ॒णोतु॑ । मह्य॑म् । अ॒स॒प॒त्नम् । ए॒व । विश्वे॑ । दे॒वा: । मम॑ । ना॒थम् । भ॒व॒न्तु॒ । सर्वे॑ ।दे॒वा: । हव॑म् । आ । य॒न्तु॒ । मे॒ । इ॒मम् ॥२.७॥


    स्वर रहित मन्त्र

    अध्यक्षो वाजी मम काम उग्रः कृणोतु मह्यमसपत्नमेव। विश्वे देवा मम नाथं भवन्तु सर्वे देवा हवमा यन्तु म इमम् ॥

    स्वर रहित पद पाठ

    अधिऽअक्ष: । वाजी । मम । काम: । उग्र: । कृणोतु । मह्यम् । असपत्नम् । एव । विश्वे । देवा: । मम । नाथम् । भवन्तु । सर्वे ।देवा: । हवम् । आ । यन्तु । मे । इमम् ॥२.७॥

    अथर्ववेद - काण्ड » 9; सूक्त » 2; मन्त्र » 7

    भावार्थ -
    वह (उग्रः कामः) अटूट नियमों वाला सत्संकल्पमय परमात्मा (वाजी) बलवान् (मम अध्यक्षाः) मेरा अध्यक्ष, साक्षी है। वह (मह्यम्) मुझे (असपत्नम् कृणोतु) अन्तःशत्रु से रहित करे। (विश्वे देवाः) समस्त देवगण, विद्वान् पुरुष (मम नाथं भवन्तु) इस कार्य में मेरे स्वामी हों, मेरी सहायता करें। (सर्वे देवाः) और सब विद्वान् जन (मे) मेरे (इमम्) इस (हवम्) निमन्त्रण आह्वान में (आ यन्तु) आवें।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः॥ कामो देवता॥ १, ४, ६, ९, १०, १३, १९, २४ अनुष्टुभः। ५ अति जगती। ८ आर्चीपंक्तिः। ११, २०, २३ भुरिजः। १२ अनुष्टुप्। ७, १४, १५ १७, १८, २१, २२ अतिजगत्यः। १६ चतुष्पदा शक्वरीगर्भा पराजगती। पञ्चविंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top