अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 7
सूक्त - बृहस्पतिः
देवता - फालमणिः, वनस्पतिः
छन्दः - त्र्यवसाना षट्पदा शक्वरी
सूक्तम् - मणि बन्धन सूक्त
यमब॑ध्ना॒द्बृह॒स्पति॑र्म॒णिं फालं॑ घृत॒श्चुत॑मु॒ग्रं ख॑दि॒रमोज॑से। तमिन्द्रः॒ प्रत्य॑मुञ्च॒तौज॑से वी॒र्याय॒ कम्। सो अ॑स्मै॒ बल॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
स्वर सहित पद पाठयम् । अब॑ध्नात् । बृह॒स्पति॑: । म॒णिम् । फाल॑म् । घृ॒त॒ऽश्चुत॑म् । उ॒ग्रम् । ख॒दि॒रम् । ओज॑से । तम् । इन्द्र॑: । प्रति॑ । अ॒मु॒ञ्च॒त॒ । ओज॑से । वी॒र्या᳡य । कम् । स: । अ॒स्मै॒ । बल॑म् । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.७॥
स्वर रहित मन्त्र
यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे। तमिन्द्रः प्रत्यमुञ्चतौजसे वीर्याय कम्। सो अस्मै बलमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥
स्वर रहित पद पाठयम् । अबध्नात् । बृहस्पति: । मणिम् । फालम् । घृतऽश्चुतम् । उग्रम् । खदिरम् । ओजसे । तम् । इन्द्र: । प्रति । अमुञ्चत । ओजसे । वीर्याय । कम् । स: । अस्मै । बलम् । इत् । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.७॥
अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 7
भाषार्थ -
(यम् अबध्नात् ...... ओजसे), अर्थ पूर्ववत् (मन्त्र ६)। (तम्) उसे (इन्द्रः) सम्राट् ने भी (प्रत्यमुञ्चत) धारण किया है (कम्) सुखपूर्वक; (ओजसे) ओज की प्राप्ति के लिये, (वीर्याय) वीर्य की प्राप्ति के लिये या वीरता के कर्म के लिये। (सः) वह सम्राट् (अस्मै) इस बृहस्पति के लिये (भूयोभूयः) वार-वार या अधिकाधिक रूप में, (श्वः श्वः) आए दिन-प्रतिदिन (बलमिद्) सैन्यबल ही (दुहे) दोहता है, प्रदान करता है। (तेन) उस सैन्यबल द्वारा (त्वम्) हे बृहस्पति ! तू (द्विषतः) द्वेषी शत्रुओं का (जहि) हनन कर।
टिप्पणी -
[इन्द्रः= सम्राट्। यथा “इन्द्रश्च सम्राट्" (यजु० ८।३७)। सम्राट् = सम् (संयुक्त राज्यों का) + राट् (राजा)। मन्त्र ६ में बृहस्पति और अग्रणी का सहयोग दर्शाया है। मन्त्र ७ में बृहस्पति और सम्राट् के सहयोग का वर्णन हुआ है। बलम् = सैन्य (गीता अध्यायः१,श्लोक ४)]।