Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 6/ मन्त्र 16
    सूक्त - बृहस्पतिः देवता - फालमणिः, वनस्पतिः छन्दः - त्र्यवसाना षट्पदा त्रिष्टुब्गर्भा जगती सूक्तम् - मणि बन्धन सूक्त

    यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तं दे॒वा बिभ्र॑तो म॒णिं सर्वां॑ल्लो॒कान्यु॒धाज॑यन्। स ए॑भ्यो॒ जिति॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥

    स्वर सहित पद पाठ

    यम् । अब॑ध्नात् । बृह॒स्पति॑: । वाता॑य । म॒णिम् । आ॒शवे॑ । तम् । देवा: । बिभ्र॑त: । म॒णिम् । सर्वा॑न् । लो॒कान् । यु॒धा । अ॒ज॒य॒न् । स: । ए॒भ्य॒: । जिति॑म् । इत् । दु॒हे॒ । भूय॑:ऽभूय:। श्व:ऽश्व॑: । तेन॑ । त्वम् । द्वि॒ष॒त: । ज॒हि॒ ॥६.१६॥


    स्वर रहित मन्त्र

    यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे। तं देवा बिभ्रतो मणिं सर्वांल्लोकान्युधाजयन्। स एभ्यो जितिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥

    स्वर रहित पद पाठ

    यम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । तम् । देवा: । बिभ्रत: । मणिम् । सर्वान् । लोकान् । युधा । अजयन् । स: । एभ्य: । जितिम् । इत् । दुहे । भूय:ऽभूय:। श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.१६॥

    अथर्ववेद - काण्ड » 10; सूक्त » 6; मन्त्र » 16

    भाषार्थ -
    (बृहस्पतिः) बृहत् ब्रह्माण्ड के पति परमेश्वर ने (आशवे वाताय) शीघ्रगति वाली वायु के निर्माण के लिये (यम् मणिम्) जिस कामनारूपी मणि को (अबध्नात्) बान्धा, (तम् मणिम्) उस कामनारूपी मणि को (देवाः) विजिगीषुओं ने (बिभ्रतः) धारण करते हुए (युधा) युद्ध द्वारा (सर्वान् लोकान्) सब लोकों को (अजयन्) जीत लिया। (सः) उस बृहस्पति ने (एभ्यः) इन विजिगीषुओं के लिये या इन विजिगीषुओं से, (जितिम् इत्) विजय को (दुहे) दोहा, (भूयोभूयः) बार-बार या अधिकाधिक रूप में (श्वः श्वः), आए दिन-प्रतिदिन (तेन) उस युद्ध द्वारा हे बृहस्पति ! (त्वम्) तू (द्विषतः) हमारे द्वेषी शत्रुओं का (जहि) हनन कर।

    इस भाष्य को एडिट करें
    Top