Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 20
    ऋषिः - वसिष्ठ ऋषिः देवता - सविता देवता छन्दः - निचृद्गायत्री स्वरः - षड्जः
    7

    यद॒द्य सूर॒ऽउदि॒तेऽना॑गा मि॒त्रोऽअ॑र्य्य॒मा।सु॒वाति॑ सवि॒ता भगः॑॥२०॥

    स्वर सहित पद पाठ

    यत्। अ॒द्य। सूरे॑। उदि॑त॒ऽइत्युत्ऽइ॑ते। अना॑गाः। मि॒त्रः। अ॒र्य्य॒मा ॥ सु॒वाति॑। स॒वि॒ता। भगः॑ ॥२० ॥


    स्वर रहित मन्त्र

    यदद्य सूरऽउदिते नागा मित्रोऽअर्यमा । सुवाति सविता भगः ॥


    स्वर रहित पद पाठ

    यत्। अद्य। सूरे। उदितऽइत्युत्ऽइते। अनागाः। मित्रः। अर्य्यमा॥ सुवाति। सविता। भगः॥२०॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 20
    Acknowledgment

    अन्वयः - हे मनुष्याः! यद्योऽद्य उदिते सूरऽनागा मित्रः सविता भगोऽर्यमा स्वास्थ्यं सुवाति, स राज्यं कर्त्तुमर्हेत्॥२०॥

    पदार्थः -
    (यत्) यः (अद्य) (सूरे) सूर्य्ये (उदिते) (अनागाः) अधर्माचरणरहितः (मित्रः) सर्वेषां सुहृत् (अर्य्यमा) न्यायकारी (सुवाति) उत्पादयेत् (सविता) राजनियमैः प्रेरकः (भगः) ऐश्वर्य्यवान्॥२०॥

    भावार्थः - हे मनुष्याः! यथोदितेऽर्के तमो निवृत्य प्रकाशे सति सर्व आनन्दिता भवन्ति, तथैव धार्मिके राजनि सति प्रजासु सर्वथा स्वास्थ्यं भवति॥२०॥

    इस भाष्य को एडिट करें
    Top