Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 82
    ऋषिः - मेधातिथिर्ऋषिः देवता - विश्वेदेवा देवताः छन्दः - निचृद्बृहती स्वरः - मध्यमः
    7

    यस्या॒यं विश्व॒ऽआर्यो॒ दासः॑ शेवधि॒पाऽअ॒रिः।ति॒रश्चि॑द॒र्य्ये रु॒शमे॒ पवी॑रवि॒ तुभ्येत्सोऽअ॑ज्यते र॒यिः॥८२॥ति॒रश्चि॑द॒र्य्ये रु॒शमे॒ पवी॑रवि॒ तुभ्येत्सोऽअ॑ज्यते र॒यिः॥८२॥

    स्वर सहित पद पाठ

    यस्यः॑ अ॒यम्। विश्वः॑। आर्य्यः॑। दासः॑। शे॒व॒धि॒पा इति॑ शेवधि॒ऽपाः। अ॒रिः ॥ ति॒रः। चि॒त्। अ॒र्य्ये। रु॒शमे॑। पवी॑रवि। तुभ्य॑। इत्। सः। अ॒ज्य॒ते॒। र॒यिः ॥८२ ॥


    स्वर रहित मन्त्र

    यस्यायँविश्वऽआर्या दासः शेवधिपाऽअरिः । तिरश्चिदर्ये रुशमे परीरवि तुभ्येत्सोऽअज्यते रयिः ॥


    स्वर रहित पद पाठ

    यस्यः अयम्। विश्वः। आर्य्यः। दासः। शेवधिपा इति शेवधिऽपाः। अरिः॥ तिरः। चित्। अर्य्ये। रुशमे। पवीरवि। तुभ्य। इत्। सः। अज्यते। रयिः॥८२॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 82
    Acknowledgment

    अन्वयः - हे राजन्! यस्य तवायं विश्व आर्य्यो दासः शेवधिपा अरिः पवीरवि रुशमेऽर्य्ये तिरश्चित् तुभ्येत्स त्वं रयिरज्यते॥८२॥

    पदार्थः -
    (यस्य) (अयम्) (विश्वः) सर्वः (आर्य्यः) धर्म्यगुणकर्मस्वभावः (दासः) सेवकः (शेवधिपाः) यः शेवधिं निधिं पाति रक्षति धर्मादिकार्य्ये करे च न व्येति स शेवधिपा। निधिः शेवधिरिति यास्कः॥ (निरु॰२।४) (अरिः) शत्रुः (तिरः) अन्तर्धानं गतः (चित्) अपि (अर्य्ये) धनस्वामिनि वैश्यादौ (रुशमे) हिंसके (पवीरवि) यो धनादिरक्षायै पवीरं शस्त्रं वाति प्राप्नोति तस्मिन् (तुभ्य) तुभ्यम्। अत्र वा छान्दसो वर्णलोपः (इत्) एव (सः) (अज्यते) प्राप्यते (रयिः) धनमिव॥८२॥

    भावार्थः - यस्य राज्ञः सर्व आर्य्या राज्यरक्षकाः सेवकाः सन्ति, धनादिकरस्यादाता च शत्रुस्तस्मादपि येन भवता धनादिकरो गृह्यते स सर्वोत्तमश्रीः स्यात्॥८२॥

    इस भाष्य को एडिट करें
    Top