Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 65
    ऋषिः - वामदेव ऋषिः देवता - इन्द्रो देवता छन्दः - गायत्री स्वरः - षड्जः
    7

    आ तू न॑ऽइन्द्र वृत्रहन्न॒स्माक॑म॒र्द्धमा ग॑हि।म॒हान् म॒हीभि॑रू॒तिभिः॑॥६५॥

    स्वर सहित पद पाठ

    आ। तु। नः॒। इ॒न्द्र॒। वृ॒त्र॒ह॒न्निति॑ वृत्रऽहन्। अ॒स्माक॑म्। अ॒र्द्धम्। आ। ग॒हि॒। म॒हान्। म॒हीभिः॑। ऊ॒तिभि॒रित्यू॒तिऽभिः॑ ॥६५ ॥


    स्वर रहित मन्त्र

    आ तू नऽइन्द्र वृत्रहन्नस्माकमर्धमा गहि । महान्महीभिरूतिभिः ॥


    स्वर रहित पद पाठ

    आ। तु। नः। इन्द्र। वृत्रहन्निति वृत्रऽहन्। अस्माकम्। अर्द्धम्। आ। गहि। महान्। महीभिः। ऊतिभिरित्यूतिऽभिः॥६५॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 65
    Acknowledgment

    अन्वयः - हे वृत्रहन्निन्द्र! त्वमस्माकमर्द्धमागहि महान् सन्महीभिरूतिभिर्नोऽस्मान् त्वाऽऽदधनत्॥६५॥

    पदार्थः -
    (आ) समन्तात् (तु) क्षिप्रम्। अत्र ऋचि तुनु॰ [अ॰६.३.१३३] इति दीर्घः। (नः) अस्मान् (इन्द्र) परमैश्वर्यवन् (वृत्रहन्) शत्रूणां विनाशक (अस्माकम्) (अर्द्धम्) वर्धनम् (आ) (गहि) प्राप्नुहि (महान्) पूजनीयतमः (महीभिः) महतीभिः (ऊतिभिः) रक्षादिभिः॥६५॥

    भावार्थः - अत्र पूर्वस्मान्मन्त्राद् दधनदिति पदमनुवर्तते। हे राजन्! यथा भवानस्माकं रक्षकोऽस्ति, तथा वयमपि भवन्तं वर्द्धयेम्। सर्वे वयं प्रीत्या मिलित्वा दुष्टान् निवार्य्य श्रेष्ठान् धनाढ्यान् कुर्य्याम॥६५॥

    इस भाष्य को एडिट करें
    Top