Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 77
    ऋषिः - सुहोत्रऋषिः देवता - विश्वेदेवा देवताः छन्दः - निचृद् गायत्री स्वरः - षड्जः
    7

    उप॑ नः सू॒नवो॒ गिरः॑ शृ॒ण्वन्त्व॒मृत॑स्य॒ ये।सु॒मृ॒डी॒का भ॑वन्तु नः॥७७॥

    स्वर सहित पद पाठ

    उप॑। नः॒। सू॒नवः॑। गिरः॑। शृ॒ण्वन्तु॑। अ॒मृत॑स्य। ये ॥ सु॒मृ॒डी॒का इति॑ सुऽमृडी॒का भ॒व॒न्तु॒। नः॒ ॥७७ ॥


    स्वर रहित मन्त्र

    उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये । सुमृडीका भवन्तु नः ॥


    स्वर रहित पद पाठ

    उप। नः। सूनवः। गिरः। शृण्वन्तु। अमृतस्य। ये॥ सुमृडीका इति सुऽमृडीका भवन्तु। नः॥७७॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 77
    Acknowledgment

    अन्वयः - ये नः सूनवोऽमृतस्य गिर उपशृण्वन्तु ते नस्सुमृडीका भवन्तु॥७७॥

    पदार्थः -
    (उप) (नः) अस्माकम् (सूनवः) अपत्यानि (गिरः) (शृण्वन्तु) (अमृतस्य) नाशरहितस्य परमेश्वरस्य नित्यस्य वेदस्य वा (ये) (सुमृडीकाः) सुष्ठु सुखकराः (भवन्तु) (नः) अस्मभ्यम्॥७७॥

    भावार्थः - यदि मातापितरौ स्वपुत्रान् कन्याश्च ब्रह्मचर्येण वेदविद्यया सुशिक्षया च युक्तान् कृत्वा शरीरात्मबलवतः कुर्यातां तर्हि तेभ्योऽत्यन्तसुखकरौ स्याताम्॥७७॥

    इस भाष्य को एडिट करें
    Top