यजुर्वेद - अध्याय 33/ मन्त्र 9
अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद् द्रविण॒स्युर्वि॑प॒न्यया॑।समि॑द्धः शु॒क्रऽआहु॑तः॥९॥
स्वर सहित पद पाठअ॒ग्निः। वृ॒त्राणि॑। ज॒ङ्घ॒न॒त्। द्र॒वि॒ण॒स्युः। विप॒न्यया॑। समि॑द्ध॒ इति॒ सम्ऽइ॑द्धः। शु॒क्रः। आहु॑त॒ इत्याऽहु॑तः ॥९ ॥
स्वर रहित मन्त्र
अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया । समिद्धः शुक्र आहुतः ॥
स्वर रहित पद पाठ
अग्निः। वृत्राणि। जङ्घनत्। द्रविणस्युः। विपन्यया। समिद्ध इति सम्ऽइद्धः। शुक्रः। आहुत इत्याऽहुतः॥९॥
विषयः - मनुष्यः सूर्यवद्दोषान् हन्यादित्याह॥
अन्वयः - हे विद्वन्! यथा समिद्धः शुक्रोऽग्निर्वृत्राणि जङ्घनत्, तथा द्रविणस्युराहुतो भवान् विपन्यया दुष्टान् भृशं हन्यात्॥९॥
पदार्थः -
(अग्निः) सूर्यादिरूपः (वृत्राणि) मेघावयवान् (जङ्घनत्) भृशं हन्ति (द्रविणस्युः) आत्मनो द्रविणमिच्छुः (विपन्यया) विशेषव्यवहारयुक्त्या (समिद्धः) सम्यक् प्रदीप्तः (शुक्रः) शीघ्रकर्त्ता (आहुतः) कृताह्वानः॥९॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यथा व्यवहारवित् पुरुषो धनं प्राप्य सत्कृतो भूत्वा दोषान् हन्ति, तथा सूर्यो मेघं ताडयति॥९॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal