Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 50
    ऋषिः - प्रगाथ ऋषिः देवता - महेन्द्रो देवता छन्दः - त्रिष्टुप् स्वरः - धैवतः
    6

    अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः॑। यः शꣳस॑ते स्तुव॒ते धायि॑ प॒ज्रऽइन्द्र॑ज्येष्ठाऽअ॒स्माँ२ऽअ॑वन्तु दे॒वाः॥५०॥

    स्वर सहित पद पाठ

    अ॒स्मेऽइत्य॒स्मे। रु॒द्राः। मे॒हना॑। पर्व॑तासः। वृ॒त्र॒हत्य॒ इति॑ वृत्र॒ऽहत्ये॑। भर॑हूता॒विति॒ भर॑ऽहूतौ। स॒जोषा॒ इति॑ स॒ऽजोषाः॑ ॥ यः। शꣳस॑ते। स्तु॒व॒ते। धायि॑। प॒ज्रः। इन्द्र॑ज्येष्ठा॒ इतीन्द्र॑ऽज्येष्ठाः। अ॒स्मान्। अ॒व॒न्तु॒। दे॒वाः ॥५० ॥


    स्वर रहित मन्त्र

    अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः । यः शँसते स्तुवते धायि पज्रऽइन्द्रज्येष्ठा अस्माँऽअवन्तु देवाः ॥


    स्वर रहित पद पाठ

    अस्मेऽइत्यस्मे। रुद्राः। मेहना। पर्वतासः। वृत्रहत्य इति वृत्रऽहत्ये। भरहूताविति भरऽहूतौ। सजोषा इति सऽजोषाः॥ यः। शꣳसते। स्तुवते। धायि। पज्रः। इन्द्रज्येष्ठा इतीन्द्रऽज्येष्ठाः। अस्मान्। अवन्तु। देवाः॥५०॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 50
    Acknowledgment

    अन्वयः - हे मनुष्याः! यः पज्रः याञ्छंसते स्तुवते येन च धनं धायि तमस्माँश्च येऽस्मे मेहना रुद्राः पर्वतासो वृत्रहत्ये भरहूतौ सजोषा इन्द्रज्येष्ठा देवा अवन्तु। ते युष्मानप्यवन्तु॥५०॥

    पदार्थः -
    (अस्मे) अस्मासु (रुद्राः) शत्रून् रोदयन्ति ते (मेहना) धनादिसेचकाः। अत्राकारादेशः। (पर्वतासः) पर्वाण्युत्सवा विद्यन्ते येषान्ते। अत्र पर्वमरुद्भ्यां तबिति वार्त्तिकेन तप् प्रत्ययः। (वृत्रहत्ये) वृत्रस्य दुष्टस्य हत्ये हननाय (भरहूतौ) भरे सङ्ग्रामे हूतिराह्वानं तत्र (सजोषाः) समानप्रीतिसेवनाः (यः) नरः (शंसते) (स्तुवते) स्तौति। अत्र शब्विकरणः। (धायि) ध्रियते। अत्र लुङ्यडभावः। (पज्रः) प्रार्जितैश्वर्य्यः। पृषोदरादित्वादिष्टसिद्धिः। (इन्द्रज्येष्ठाः) इन्द्रः सभापतिर्ज्येष्ठो येषु ते (अस्मान्) (अवन्तु) रक्षन्तु (देवाः)॥५०॥

    भावार्थः - ये राजजनाः पदार्थस्तावकाः श्रेष्ठरक्षका दुष्टताडकाः सङ्ग्रामीया मेघवत्पालकाः प्रशंसनीयाः सन्ति ते सर्वैः सेवनीया॥५०॥

    इस भाष्य को एडिट करें
    Top