Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 45
    ऋषिः - मेधातिथिर्ऋषिः देवता - इन्द्रवायू देवते छन्दः - गायत्री स्वरः - षड्जः
    7

    इ॒न्द्र॒वा॒यू बृह॒स्पतिं॑ मि॒त्राग्निं पू॒षणं॒ भग॑म्।आ॒दि॒त्यान् मारु॑तं ग॒णम्॥४५॥

    स्वर सहित पद पाठ

    इ॒न्द्र॒वा॒यूऽइती॑न्द्रवा॒यू। बृह॒स्पति॑म्। मि॒त्रा। अ॒ग्निम्। पू॒षण॑म्। भग॑म् ॥ आ॒दि॒त्यान्। मारु॑तम्। ग॒णम् ॥४५ ॥


    स्वर रहित मन्त्र

    इन्द्रवायू बृहस्पतिम्मित्राग्निम्पूषणम्भगम् । आदित्यान्मारुतङ्गणम् ॥


    स्वर रहित पद पाठ

    इन्द्रवायूऽइतीन्द्रवायू। बृहस्पतिम्। मित्रा। अग्निम्। पूषणम्। भगम्॥ आदित्यान्। मारुतम्। गणम्॥४५॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 45
    Acknowledgment

    अन्वयः - हे मनुष्याः! यथा वयमिन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगमादित्यान् मारुतं गणं विज्ञायोपयुञ्जीमहि तथा यूयमपि प्रयुङ्ग्ध्वम्॥४५॥

    पदार्थः -
    (इन्द्रवायू) विद्युत्पवनौ (बृहस्पतिम्) बृहतां पालकं सूर्य्यम् (मित्रा) मित्रं प्राणम्। अत्र विभक्तेराकारादेशः। (अग्निम्) पावकम् (पूषणम्) पुष्टिकरम् (भगम्) ऐश्वर्यम् (आदित्यान्) द्वादशमासान् (मारुतम्) मरुत्सम्बन्धिनम् (गणम्) समूहम्॥४५॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। मनुष्यैः सृष्टिस्थान् विद्युदादीन् पदार्थान् विज्ञाय संयुज्य कार्याणि साधनीयानि॥४५॥

    इस भाष्य को एडिट करें
    Top