यजुर्वेद - अध्याय 33/ मन्त्र 36
ऋषिः - प्रस्कण्व ऋषिः
देवता - सूर्यो देवता
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
6
त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य्य।विश्व॒मा भा॑सि रोच॒नम्॥३६॥
स्वर सहित पद पाठत॒रणिः॑। वि॒श्वद॑र्शत॒ इति॑ वि॒श्वऽद॑र्शतः। ज्यो॒ति॒ष्कृत्। ज्यो॒तिः॒कृदिति॑ ज्योतिः॒ऽकृत्। अ॒सि॒। सू॒र्य्य॒ ॥ विश्व॑म्। आ। भा॒सि॒। रो॒च॒नम् ॥३६ ॥
स्वर रहित मन्त्र
तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य । विश्वमा भासि रोचनम् ॥
स्वर रहित पद पाठ
तरणिः। विश्वदर्शत इति विश्वऽदर्शतः। ज्योतिष्कृत्। ज्योतिःकृदिति ज्योतिःऽकृत्। असि। सूर्य्य॥ विश्वम्। आ। भासि। रोचनम्॥३६॥
विषयः - अथ राजपुरुषाः कीदृशाः स्युरित्याह॥
अन्वयः - हे सूर्य! त्वं यथा तरणिर्विश्वदर्शतो ज्योतिष्कृत् सविता रोचनं विश्वं प्रकाशयति तथा त्वमसि यतो न्यायविनयेन राज्यमाभासि तस्मात् सत्कर्त्तव्योऽसि॥३६॥
पदार्थः -
(तरणिः) तारकः (विश्वदर्शतः) विश्वेन द्रष्टव्यः (ज्योतिष्कृत्) यो ज्योतींषि करोति सः (असि) (सूर्य्य) सूर्य्यवद्वर्तमान राजन! (विश्वम्) समग्रं राज्यम् (आ) (भासि) प्रकाशयसि (रोचनम्) रुचिकरम्॥३६॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः। यदि राजपुरुषा विद्याप्रकाशकाः स्युस्तर्हि सर्वानानन्दयितुं शक्नुयुः॥३६॥
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal