Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 56
    ऋषिः - मधुच्छन्दा ऋषिः देवता - इन्द्रवायू देवते छन्दः - गायत्री स्वरः - षड्जः
    6

    इन्द्र॑वायूऽइ॒मे सु॒ताऽउप॒ प्रयो॑भि॒रा ग॑तम्। इन्द॑वो वामु॒शन्ति॒ हि॥५६॥

    स्वर सहित पद पाठ

    इन्द्र॑वायूऽइ॒तीन्द्र॑वायू। इ॒मे। सु॒ताः। उप॑। प्रयो॑भि॒रिति॒ प्रयः॑ऽभिः। आ। ग॒त॒म्। इन्द॑वः। वा॒म्। उ॒शन्ति॑। हि ॥५६ ॥


    स्वर रहित मन्त्र

    इन्द्रवायूऽइमे सुताऽउप प्रयोभिरागतम् । इन्दवो वामुशन्ति हि ॥


    स्वर रहित पद पाठ

    इन्द्रवायूऽइतीन्द्रवायू। इमे। सुताः। उप। प्रयोभिरिति प्रयःऽभिः। आ। गतम्। इन्दवः। वाम्। उशन्ति। हि॥५६॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 56
    Acknowledgment

    अन्वयः - इन्द्रवायू युष्मदर्थमिमे सुता पदार्थाः सन्ति हीन्दवो वामुशन्ति, तस्मात् प्रयोभिस्तानुपाऽऽगतम्॥५६॥

    पदार्थः -
    (इन्द्रवायू) विद्युत्पवनविद्याविदौ (इमे) (सुताः) निष्पादिताः (उप) (प्रयोभिः) कमनीयैर्गुणकर्मस्वभावैः (आ) (गतम्) समन्तात् प्राप्नुतम् (इन्दवः) सोमाद्योषधिरसाः (वाम्) युवाम् (उशन्ति) कामयन्ते (हि) यतः॥५६॥

    भावार्थः - हे विद्वांसो! यतो यूयमस्माकमुपरि कृपां विधत्थ, तस्माद् युष्मान् सर्वे प्राप्तुमिच्छन्ति॥५६॥

    इस भाष्य को एडिट करें
    Top