Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 94
    ऋषिः - मनुर्ऋषिः देवता - विश्वेदेवा देवताः छन्दः - पङ्क्तिः स्वरः - पञ्चमः
    9

    दे॒वासो॒ हि ष्मा॒ मन॑वे॒ सम॑न्यवो॒ विश्वे॑ सा॒कꣳसरा॑तयः।ते नो॑ऽअ॒द्य ते अ॑प॒रं तु॒चे तु नो॒ भव॑न्तु वरिवो॒विदः॑॥९४॥

    स्वर सहित पद पाठ

    दे॒वासः॑। हि॑। स्म॒। मन॑वे। सम॑न्यव॒ इति॒ सऽम॑न्यवः। विश्वे॑। सा॒कम्। सरा॑तय॒ इति॒ सऽरा॑तयः ॥ ते। नः॒। अ॒द्य। ते। अ॒प॒रम्। तु॒चे। तु। नः॒। भव॑न्तु। व॒रि॒वो॒विद॒ इति॑ वरिवः॒ऽविदः॑ ॥९४ ॥


    स्वर रहित मन्त्र

    देवासो हि ष्मा मनवे समन्यवो विश्वे साकँ सरातयः । ते नोऽअद्य तेऽअपरन्तुचे तु नो भवन्तु वरिवोविदः ॥


    स्वर रहित पद पाठ

    देवासः। हि। स्म। मनवे। समन्यव इति सऽमन्यवः। विश्वे। साकम्। सरातय इति सऽरातयः॥ ते। नः। अद्य। ते। अपरम्। तुचे। तु। नः। भवन्तु। वरिवोविद इति वरिवःऽविदः॥९४॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 94
    Acknowledgment

    अन्वयः - हे मनुष्याः! ये सरातयः समन्यवो विश्वे देवासः साकमद्य नो मनवे स्म वरिवोविदो भवन्तु, ते त्वपरं नस्तुचेऽस्मभ्यञ्च वरिवोविदो भवन्तु, ते हि युष्मभ्यं वरिवोविदः स्युः॥९४॥

    पदार्थः -
    (देवासः) विद्वांसः (हि) (स्म) प्रसिद्धौ। अत्र निपातस्य च [अ॰६.३.१३६] इति दीर्घः षत्वं च छान्दसम्। (मनवे) मनुष्याय (समन्यवः) समानो मन्युः क्रोधो येषान्ते (विश्वे) सर्वे (साकम्) सह (सरातयः) समाना रातयो दानानि येषान्ते (ते) (नः) अस्माकम् (अद्य) (ते) (अपरम्) भविष्यति काले (तुचे) पुत्रपौत्राद्यायाऽपत्याय। तुगित्यपत्यनामसु पठितम्॥ (निघं॰२।२) (तु) (नः) अस्माकम् (भवन्तु) (वरिवोविदः) ये वरिवः परिचरणं विदन्ति जानन्ति यद्वा वरिवो धनं वेदयन्ति प्रापयन्ति ते॥९४॥

    भावार्थः - ये मनुष्याः परस्परेभ्यः सुखानि दद्युर्ये साकं दुष्टानामुपरि क्रोधं कुर्युस्ते पुत्रपौत्रवन्तो भूत्वा मनुष्यसुखोन्नतये समर्था विद्वांसो भवितुमर्हन्ति॥९४॥

    इस भाष्य को एडिट करें
    Top