Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 86
    ऋषिः - तापस ऋषिः देवता - इन्द्रवायू देवते छन्दः - निचृद् बृहती स्वरः - मध्यमः
    10

    इ॒न्द्र॒वा॒यू सु॑स॒न्दृशा॑ सु॒हवे॒ह ह॑वामहे।यथा॑ नः॒ सर्व॒ऽइज्जनो॑ऽनमी॒वः स॒ङ्गमे॑ सु॒मना॒ऽअस॑त्॥८६॥

    स्वर सहित पद पाठ

    इ॒न्द्र॒वा॒यू इती॑न्द्रऽवा॒यू। सु॒स॒न्दृशेति॑ सुऽस॒न्दृशा॑। सु॒हवेति॑ सु॒ऽहवा॑। इ॒ह। ह॒वा॒म॒हे॒ ॥ यथा॑। नः॒। सर्वः॑। इत्। जनः॑। अ॒न॒मी॒वः। स॒ङ्गम॒ इति॑ स॒म्ऽगमे॑। सु॒मना॒ इति॑ सु॒ऽमनाः॑। अस॑त् ॥८६ ॥


    स्वर रहित मन्त्र

    इन्द्रवायू सुसन्दृशा सुहवेह हवामहे । यथा नः सर्व इज्जनो नमीवः सङ्गमे सुमनाऽअसत्॥


    स्वर रहित पद पाठ

    इन्द्रवायू इतीन्द्रऽवायू। सुसन्दृशेति सुऽसन्दृशा। सुहवेति सुऽहवा। इह। हवामहे॥ यथा। नः। सर्वः। इत्। जनः। अनमीवः। सङ्गम इति सम्ऽगमे। सुमना इति सुऽमनाः। असत्॥८६॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 86
    Acknowledgment

    अन्वयः - वयं यौ सुसन्दृशा सुहवा इन्द्रवायू इह हवामहे यथा सङ्गमे नोऽनमीवः सुमनाः सर्व इज्जनो असत् तथा तौ कुर्याताम्॥८६॥

    पदार्थः -
    (इन्द्रवायू) राजप्रजाजनौ (सुसन्दृशा) सुष्ठु सम्यक् द्रष्टारौ (सुहवा) सुष्ठ्वाहवनीयौ (इह) (हवामहे) स्वीकुर्महे (यथा) (नः) अस्माकम् (सर्वः) (इत्) एव (जनः) (अनमीवः) अरोगः (सङ्गमे) सङ्ग्रामे समागमे वा। सङ्गम इति संग्रामनामसु पठितम्॥ (निघं॰२।१७) (सुमनाः) प्रसन्नचित्तः (असत्) भवेत्॥८६॥

    भावार्थः - अत्रोपमालङ्कारः। तथैव राजप्रजाजनाः प्रयतेरन् यथा सर्वे मनुष्यादयः प्राणिनोऽरोगाः प्रसन्नमनसो भूत्वा पुरुषार्थिनः स्युः॥८६॥

    इस भाष्य को एडिट करें
    Top