Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 33/ मन्त्र 4
    ऋषिः - विश्वरूप ऋषिः देवता - अग्निर्देवता छन्दः - निचृद्गायत्री स्वरः - षड्जः
    9

    यु॒क्ष्वा हि दे॑व॒हूत॑माँ॒२ऽअश्वाँ॑२ऽअग्ने र॒थीरि॑व।नि होता॑ पू॒र्व्यः स॑दः॥४॥

    स्वर सहित पद पाठ

    यु॒क्ष्व। हि। दे॒व॒हूत॑मा॒निति॑ देव॒ऽहूत॑मान्। अश्वा॑न्। अ॒ग्ने॒। र॒थीरि॒वेति॑ र॒थीःऽइ॑व ॥ नि। होता॑। पू॒र्व्यः। स॒दः॒ ॥४ ॥


    स्वर रहित मन्त्र

    युक्ष्वा हि देवहूतमाँऽअश्वाँ अग्ने रथीरिव । नि होता पूर्व्यः सदः ॥


    स्वर रहित पद पाठ

    युक्ष्व। हि। देवहूतमानिति देवऽहूतमान्। अश्वान्। अग्ने। रथीरिवेति रथीःऽइव॥ नि। होता। पूर्व्यः। सदः॥४॥

    यजुर्वेद - अध्याय » 33; मन्त्र » 4
    Acknowledgment

    अन्वयः - हेअग्ने! त्वं रथीरिव देवहूतमानश्वान् युक्ष्व, होता पूर्व्यः सन् हि नि सदः॥४॥

    पदार्थः -
    (युक्ष्व) योजय। अत्र द्व्यचोऽतस्तिङः [अ॰६.३.१३५] इति दीर्घः। (हि) खलु (देवहूतमान्) ये देवैर्विद्वद्भिर्हूयन्ते स्तूयन्ते तेऽतिशयितास्तान् (अश्वान्) आशुगामिनोऽग्न्यादीन् तुरङ्गान् वा (अग्ने) विद्वन्! (रथीरिव) यथा सारथिस्तथा। अत्र मत्वर्थे ईर् प्रत्ययः। (नि) नितराम् (होता) आदाता (पूर्व्यः) पूर्वैः कृतविद्यः (सदः) अत्राडभावः॥४॥

    भावार्थः - अत्रोपमालङ्कारः। यथा सुशिक्षितः सारथिरश्वैरनेकानि कार्य्याणि साध्नोति, तथा कृतविद्यो जनोऽग्न्यादिभिरनेकानि कार्याणि साध्नुयात्॥४॥

    इस भाष्य को एडिट करें
    Top