अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 13
उ॑रूण॒साव॑सु॒तृपा॑वुदुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ जनाँ॒ अनु॑। ताव॒स्मभ्यं॑दृ॒शये॒ सूर्या॑य॒ पुन॑र्दाता॒मसु॑म॒द्येह भ॒द्रम् ॥
स्वर सहित पद पाठउ॒रु॒ऽन॒सौ । अ॒सु॒ऽतृपौ॑ । उ॒दु॒म्ब॒लौ । य॒मस्य॑ । दू॒तौ । च॒र॒त॒:। जना॑न् । अनु॑ । तौ । अ॒स्मभ्य॑म् । दृ॒शये॑ । सूर्या॑य । पुन॑: । दा॒ता॒म् । असु॑म् । अ॒द्य । इ॒ह । भ॒द्रम् ॥२.१३॥
स्वर रहित मन्त्र
उरूणसावसुतृपावुदुम्बलौ यमस्य दूतौ चरतो जनाँ अनु। तावस्मभ्यंदृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ॥
स्वर रहित पद पाठउरुऽनसौ । असुऽतृपौ । उदुम्बलौ । यमस्य । दूतौ । चरत:। जनान् । अनु । तौ । अस्मभ्यम् । दृशये । सूर्याय । पुन: । दाताम् । असुम् । अद्य । इह । भद्रम् ॥२.१३॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 13
विषय - समय के सुप्रयोग का उपदेश।
पदार्थ -
(यमस्य) संयमी पुरुषके (दूतौ) उत्तेजक (उरूणसौ) बड़ी गतिवाले, (असुतृपौ) बुद्धि को तृप्त करनेवाले, (उदुम्बलौ) दृढ़ बलवाले दोनों [राति-दिन] (जनान् अनु) मनुष्यों में (चरतः)विचरते हैं। (तौ) वे दोनों (अस्मभ्यम्) हम लोगों को (सूर्याय दृशये) सर्वप्रेरकपरमात्मा के देखने के लिये (अद्य) अब (इह) यहाँ पर (असुम्) बुद्धि और (भद्रम्)आनन्द (पुनः) बारम्बार (दाताम्) देते रहें ॥१३॥
भावार्थ - सब मनुष्य समय केलक्षणों को पूरा विचार कर ऐसा प्रयत्न करें कि वे दोनों राति-दिन अपने लियेबुद्धि और आनन्द बढ़ाते रहें ॥१३॥
टिप्पणी -
१३−(उरूणसौ) णस कौटिल्ये गतौ च-क्विप्।नसतेर्गतिकर्मा-निघ० २।१४। विस्तीर्णगतिमन्तौ (असुतृपौ) प्रज्ञातर्पकौ (उदुम्बलौ) उड संहतौ सौ० धा०-कु, डस्य दः, यद्वा उन्दी क्लेदने-कु+बलसंवरणे-खच्। संहतबलौ। दृढबलौ। रात्रिदिवसौ (यमस्य) संयमिनः पुरुषस्य (दूतौ)दुतनिभ्यां दीर्घश्च। उ० ३।९०। टुदु उपतापे, यद्वा, दु गतौ-क्त। उपतापकौ।उत्तेजकौ (चरतः) विचरतः (जनान्) मनुष्यान् (अनु) अनुलक्ष्य (तौ) तादृशौरात्रिदिवसौ (अस्मभ्यम्) (दृशये) इगुपधात् कित्। उ० ४।१२०। दृशिर् प्रेक्षणे-इप्रत्ययः, कित्। दर्शनाय (सूर्याय) सर्वप्रेरकाय परमेश्वराय (पुनः) वारंवारम् (दाताम्) लोडर्थे लुङ्, अडभावः। दत्ताम् (असुम्) प्रज्ञाम् (अद्य) इदानीन् (इह)अत्र (भद्रम्) कल्याणम् ॥