अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 14
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
सोम॒ एके॑भ्यःपवते घृ॒तमेक॒ उपा॑सते। येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ तांश्चि॑दे॒वापि॑ गच्छतात्॥
स्वर सहित पद पाठसोम॑: । एके॑भ्य: । प॒व॒ते॒ । घृ॒तम् । एके॑ । उप॑ । आ॒स॒ते॒ । येभ्य॑: । मधु॑ । प्र॒ऽधाव॑ति । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छ॒ता॒त् ॥२.१४॥
स्वर रहित मन्त्र
सोम एकेभ्यःपवते घृतमेक उपासते। येभ्यो मधु प्रधावति तांश्चिदेवापि गच्छतात्॥
स्वर रहित पद पाठसोम: । एकेभ्य: । पवते । घृतम् । एके । उप । आसते । येभ्य: । मधु । प्रऽधावति । तान् । चित् । एव । अपि । गच्छतात् ॥२.१४॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 14
विषय - विद्वानों के सत्सङ्ग से बढ़ती का उपदेश।
पदार्थ -
(सोमः) ऐश्वर्य (एकेभ्यः) किन्हीं-किन्हीं [विद्वानों] को (पवते) मिलता है, (घृतम्) सार पदार्थको (एके) कोई-कोई [विद्वान्] (उप आसते) सेवते हैं। (येभ्यः) जिन [विद्वानों] को (मधु) विज्ञान (प्रधावति) शीघ्र प्राप्त होता है, (तान्) उन [सब महात्माओं] को (चित्) सत्कार से (एव) ही (अपि) अवश्य (गच्छतात्) तू प्राप्त हो ॥१४॥
भावार्थ - मनुष्य ऐश्वर्यवान्, तत्त्ववेत्ता, विज्ञानी पुरुषों को प्राप्त होकर उन्नति करें ॥१४॥मन्त्र १४-१८कुछ भेद वा अभेद से ऋग्वेद में हैं−१०।१५४।१, ४, २, ३, ५। और मन्त्र१४-१७ऋग्वेदपाठ से महर्षिदयानन्दकृत संस्कारविधि अन्त्येष्टिप्रकरण मेंउद्धृत हैं ॥
टिप्पणी -
१४−(सोमः) ऐश्वर्यम् (एकेभ्यः) केभ्यश्चिद् विद्वद्भ्यः (पवते)पवतेर्गतिकर्मा-निघ० २।१४। गच्छति। प्राप्नोति (घृतम्) सारपदार्थम् (एके)केचिद् विद्वांसः (उपासते) उपभुञ्जते। सेवन्ते (येभ्यः) (मधु) विज्ञानम् (प्रधावति) प्रकर्षेण शीघ्रं गच्छति (तान्) विदुषः पुरुषान् (चित्) सत्कारे (एव)निश्चयेन (अपि) अवश्यम् (गच्छतात्) गच्छ। प्राप्नुहि ॥