अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 5
सूक्त - जातवेदा
देवता - भुरिक् त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
य॒दा शृ॒तंकृ॒णवो॑ जातवे॒दोऽथे॒ममे॑नं॒ परि॑ दत्तात्पि॒तृभ्यः॑। य॒दोगच्छा॒त्यसु॑नीतिमे॒तामथ॑ दे॒वानां॑ वश॒नीर्भ॑वाति ॥
स्वर सहित पद पाठय॒दा । शृ॒तम् । कृ॒णव॑: । जा॒त॒ऽवे॒द॒: । अथ॑ । इ॒मम् । ए॒न॒म् । परि॑ । द॒त्ता॒त् । पि॒तृऽभ्य॑: । य॒दो इति॑ । गच्छा॑ति । असु॑ऽनीतिम् । ए॒ताम् । अथ॑ । दे॒वाना॑म् । व॒श॒ऽनी: । भ॒वा॒ति॒ ॥२.५॥
स्वर रहित मन्त्र
यदा शृतंकृणवो जातवेदोऽथेममेनं परि दत्तात्पितृभ्यः। यदोगच्छात्यसुनीतिमेतामथ देवानां वशनीर्भवाति ॥
स्वर रहित पद पाठयदा । शृतम् । कृणव: । जातऽवेद: । अथ । इमम् । एनम् । परि । दत्तात् । पितृऽभ्य: । यदो इति । गच्छाति । असुऽनीतिम् । एताम् । अथ । देवानाम् । वशऽनी: । भवाति ॥२.५॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 5
विषय - आचार्य और ब्रह्मचारी के कर्त्तव्य का उपदेश।
पदार्थ -
(जातवेदः) हे प्रसिद्धज्ञानवाले ! [आचार्य] (यदा) जब (इमम्) इस [ब्रह्मचारी] को (शृतम्) [दृढ़ ज्ञानी] (कृणवः) तू कर लेवे, (अथ) तब (एनम्) इस [परिश्रमी] को (पितृभ्यः) पितरों [रक्षकविद्वानों] को (परि दत्तात्) तू दे दे। (यदो) जब ही वह (एताम्) इस (असुनीतिम्) बुद्धिके साथ नीति [उन्नति मार्ग] को (गच्छाति) पावे, (अथ) तब वह (देवानाम्) दिव्यपदार्थों का (वशनीः) वश में लानेवाला (भवाति) होवे ॥५॥
भावार्थ - जब ब्रह्मचारी आचार्यसे शिक्षा पाकर विद्वानों में गिना जावे, तब वह अपनी बुद्धि और विद्या के बल सेसंसार के स्थूल और सूक्ष्म पदार्थों के परीक्षण से उपकार करे ॥५॥
टिप्पणी -
५−(यदा) (शृतम्)म० ४। परिपक्वं दृढज्ञानिनम् (कृणवः) कृवि हिंसाकरणयोः-लेटि अडागमः। त्वंकुर्याः (जातवेदः) हे प्रसिद्धज्ञान (अथ) तदा (इमम्) ब्रह्मचारिणम् (एनम्) परिश्रमिणंशिष्यम् (परिदत्तात्) समर्पय (पितृभ्यः) रक्षकविद्वद्भ्यः (यदो) यदा हि (गच्छाति) स प्राप्नुयात् (असुनीतिम्) असुः प्रज्ञानाम-निघ० ३।९। प्रज्ञया सहनीतिमुन्नतिमार्गम् (एताम्) प्रसिद्धां वेदविहिताम् (अथ) तदा (देवानाम्)उत्तमपदार्थानाम् (वशनीः) वशे नेता (भवाति) भूयात् ॥