अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 33
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
अपा॑गूहन्न॒मृतां॒ मर्त्ये॑भ्यः कृ॒त्वा सव॑र्णामदधु॒र्विव॑स्वते।उ॒ताश्विना॑वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ॥
स्वर सहित पद पाठअ॒प । अ॒गू॒ह॒न् । अ॒मृता॑म् । मर्त्ये॑भ्य: । कृ॒त्वा । सऽव॑र्णाम् । अ॒द॒धु॒: । विव॑स्वते । उ॒त । अ॒श्विनौ॑ । अ॒भ॒र॒त् । यत् । तत् । आसी॑त् । अज॑हात् । ऊं॒ इति॑ । द्वा । मि॒थु॒ना । स॒र॒ण्यू: ॥२.३३॥
स्वर रहित मन्त्र
अपागूहन्नमृतां मर्त्येभ्यः कृत्वा सवर्णामदधुर्विवस्वते।उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥
स्वर रहित पद पाठअप । अगूहन् । अमृताम् । मर्त्येभ्य: । कृत्वा । सऽवर्णाम् । अदधु: । विवस्वते । उत । अश्विनौ । अभरत् । यत् । तत् । आसीत् । अजहात् । ऊं इति । द्वा । मिथुना । सरण्यू: ॥२.३३॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 33
विषय - ईश्वर के गुणों का उपदेश।
पदार्थ -
(अमृताम्) अमर [नित्यप्रकृति, जगत् सामग्री] को (अप) सुख से (अगूहन्) उन [ईश्वरनियमों] ने गुप्तरक्खा और (मर्त्येभ्यः) मरणधर्मी [मनुष्य आदि प्राणियों] के हित के लिये [उसे] (सवर्णाम्) समान अङ्गीकार करने योग्य (कृत्वा) करके (विवस्वते) प्रकाशमयपरमात्मा [की आज्ञा मानने] के लिये (अदधुः) उन्होंने पुष्ट किया। (उत) और (यत्)जो कुछ [जगत्] (आसीत्) था, (तत्) उस [जगत्] ने (अश्विनौ) व्यापक प्राण और अपानको (अभरत्) धारण किया, (उ) और (सरण्यूः) व्यापक [प्रकृति, जगत्सामग्री] ने (द्वा) दो (मिथुना) जोड़ियाओं [स्त्री-पुरुष] को (अजहात्) त्यागा [उत्पन्न किया]॥३३॥
भावार्थ - ईश्वरनियम से प्रकृतिअर्थात् जगत्सामग्री प्रलयसमय में अदृश्य रहती और सृष्टिकाल में सर्वोपकारीहोकर प्रकट होती है, तब यह जगत् प्राण और अपान द्वारा चेष्टा करता है और स्त्री-पुरुष आदि प्राणी उत्पन्न होते हैं ॥३३॥यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१७।२ ॥
टिप्पणी -
३३−(अप) आनन्दे (अगूहन्) गुहू संवरणे-लङ्। अन्तर्हितां कृतवन्तःपरमात्मनियमाः प्रलये (अमृताम्) नित्यां प्रकृतिम्। जगत्सामग्रीम् (मर्त्येभ्यः)मरणधर्मणां मनुष्यादिप्राणिनां हिताय (सवर्णाम्) समानवर्णनीयां स्वीकरणीयाम् (अदधुः) अधारयन् परमेश्वरनियमाः (विवस्वते) प्रकाशमयाय। परमात्माज्ञापालनाय (उत)अपि च (अश्विनौ) प्राणापानौ (अभरत्) अधरत् (यत्) जगत् (तत्) सर्वम् (आसीत्) (अजहात्) ओहाक् त्यागे-लङ्। अत्यजत्। असृजत् (उ) चार्थे (द्वा) द्वौ (मिथुना)मिथुनौ। स्त्रीपुंसात्मकौ यमलौ (सरण्यूः) सृयुवचिभ्योऽन्युजागूजक्नुचः। उ० ३।८१।सृ गतौ-अन्युच्, ऊङ् स्त्रियाम्। व्यापिका प्रकृतिः। जगत्सामग्री ॥