अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 54
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
पू॒षात्वे॒तश्च्या॑वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः। स त्वै॒तेभ्यः॒परि॑ ददत्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुविद॒त्रिये॑भ्यः ॥
स्वर सहित पद पाठपू॒षा । त्वा॒ । इ॒त: । च्य॒व॒य॒तु॒ । प्र । वि॒द्वान् । अन॑ष्टऽपशु: । भुव॑नस्य । गो॒पा: । स: । त्वा॒ । ए॒तेभ्य॑: । परि॑ । द॒द॒त् । पि॒तृऽभ्य॑: । अ॒ग्नि: । दे॒वेभ्य॑: । सु॒ऽवि॒द॒त्रिये॑भ्य: ॥२.५४॥
स्वर रहित मन्त्र
पूषात्वेतश्च्यावयतु प्र विद्वाननष्टपशुर्भुवनस्य गोपाः। स त्वैतेभ्यःपरि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥
स्वर रहित पद पाठपूषा । त्वा । इत: । च्यवयतु । प्र । विद्वान् । अनष्टऽपशु: । भुवनस्य । गोपा: । स: । त्वा । एतेभ्य: । परि । ददत् । पितृऽभ्य: । अग्नि: । देवेभ्य: । सुऽविदत्रियेभ्य: ॥२.५४॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 54
विषय - सत्पुरुषों के मार्ग पर चलने का उपदेश।
पदार्थ -
(विद्वान्) सबजाननेवाला, (अनष्टपशुः) जीवों का नाश नहीं करनेवाला, (भुवनस्य) संसार का (गोपाः)रक्षक, (पूषा) पोषक परमात्मा (त्वा) तुझे (इतः) यहाँ से [इस दशा से] (प्रच्यावयतु) आगे को बढ़ावे। (सः) वह (अग्निः) ज्ञानवान् परमेश्वर (त्वा) तुझे (एतेभ्यः) इन (देवेभ्यः) विद्वान् (सुविदत्रियेभ्यः) बड़े धनवाले (पितृभ्यः)पितरों [रक्षक महात्माओं] को (परि) सब प्रकार (ददत्) देवे ॥५४॥
भावार्थ - मनुष्य सर्वदर्शक, सर्वरक्षक, सर्वनियामक, जगदीश्वर की उपासना करके आगे बढ़े, जिस से वह बड़े-बड़ेविद्वानों में स्थान पावे ॥५४॥मन्त्र ५४ अभेद से और मन्त्र ५५ कुछ भेद से ऋग्वेदमें हैं−१०।१७।३, ४ ॥
टिप्पणी -
५४−(पूषा) पोषकः परमात्मा (त्वा) त्वामुपासकम् (च्यावयतु)गमयतु (प्र) प्रकर्षेण (विद्वान्) (अनष्टपशुः) अनष्टा अहताः पशवः प्राणिनो येन सतथोक्तः (भुवनस्य) संसारस्य (गोपाः) गुपू रक्षणे-आय-प्रत्यये कृते क्विप्, अल्लोपयलोपौ। गोपायिता। रक्षकः (त्वा) (एतेभ्यः) (परि) सर्वतः (ददत्) दद्यात् (पितृभ्यः) पालकेभ्यो महात्मभ्यः (अग्निः) ज्ञानवान् परमेश्वरः (देवेभ्यः)विद्वद्भ्यः (सुविदत्रियेभ्यः) सुविदत्र-घ प्रत्ययः। सुविदत्रं धनं भवतिविन्दतेः-निरु० ७।९। बहुधनार्हेभ्यः। महाधनिभ्यः ॥