अथर्ववेद - काण्ड 18/ सूक्त 2/ मन्त्र 22
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
उत्त्वा॑ वहन्तुम॒रुत॑ उदवा॒हा उ॑द॒प्रुतः॑। अ॒जेन॑ कृ॒ण्वन्तः॑ शी॒तं व॒र्षेणो॑क्षन्तु॒बालिति॑ ॥
स्वर सहित पद पाठउत् । त्वा॒ । व॒ह॒न्तु॒ । म॒रुत॑: । उ॒द॒ऽवा॒हा: । उ॒द॒ऽप्रुत॑: । अ॒जेन॑ । कृ॒ण्वन्त॑: । शी॒तम् । व॒र्षेण॑ । उ॒क्ष॒न्तु॒ । बाल् । इति॑ ॥२.२२॥
स्वर रहित मन्त्र
उत्त्वा वहन्तुमरुत उदवाहा उदप्रुतः। अजेन कृण्वन्तः शीतं वर्षेणोक्षन्तुबालिति ॥
स्वर रहित पद पाठउत् । त्वा । वहन्तु । मरुत: । उदऽवाहा: । उदऽप्रुत: । अजेन । कृण्वन्त: । शीतम् । वर्षेण । उक्षन्तु । बाल् । इति ॥२.२२॥
अथर्ववेद - काण्ड » 18; सूक्त » 2; मन्त्र » 22
विषय - मनुष्यों का पितरों के साथ कर्त्तव्य का उपदेश।
पदार्थ -
[हे मनुष्य !] (उदवाहाः) जल पहुँचानेवाले, (उदप्रुतः) जल में चलनेवाले (मरुतः) पवनरूपविद्वान् लोग (त्वा) तुझे (उत् वहन्तु) ऊँचा पहुँचावें। और (अजेन) अजन्मेपरमात्मा के साथ (वर्षेण) वृष्टि से (शीतम्) शीतलता (कृण्वन्तः) करते हुए वे [तुझको] (उक्षन्तु) बढ़ावें−(बाल् इति) यही बल है ॥२२॥
भावार्थ - जैसे पवन अपने झकोरोंसे मेघों को चला वृष्टि करके ताप हटाकर संसार को सुख पहुँचाता है, वैसे हीविद्वान् लोग अज्ञान मिटा शान्ति के साथ मनुष्यों को ऊँचा करके शक्तिमान् करें॥२२॥
टिप्पणी -
२२−(उत्) ऊर्ध्वम् (त्वा) (वहन्तु) प्रापयन्तु (मरुतः) मरुतोऋत्विङ्नाम-निघ० ३।१८। पवना इव विद्वांसः (उदवाहाः) कर्मण्यण्। पा० ३।२।१।उदक+वह प्रापणे-अण्, उदकस्य उदभावः। जलस्य वोढारः प्रापयितारः (उदप्रुतः) प्रुङ्गतौ-क्विप्। जले गन्तारः (अजेन) अजन्मना परमात्मना (कृण्वन्तः) कुर्वन्तः (शीतम्) शैत्यम् (वर्षेण) वृष्टिजलेन (उक्षन्तु) उक्षण उक्षतेर्वृद्धिकर्मणः-निरु०१२।९। वर्धयन्तु (बाल्) क्विब् वचिप्रच्छिश्रिस्रुद्रुप्रुज्वांदीर्घोऽसम्प्रसारणं च। उ० २।५७। बल दाने जीवने वधे च-क्विप्, दीर्घश्च। बलम् (इति) एवम् ॥