अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 15
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - जगती
सूक्तम् - शत्रुदमन सूक्त
अ॒द्या मु॑रीय॒ यदि॑ यातु॒धानो॒ अस्मि॒ यदि॒ वायु॑स्त॒तप॒ पूरु॑षस्य। अधा॒ स वी॒रैर्द॒शभि॒र्वि यू॑या॒ यो मा॒ मोघं॒ यातु॑धा॒नेत्याह॑ ॥
स्वर सहित पद पाठअ॒द्य । मु॒री॒य॒ । यदि॑ । या॒तु॒ऽधान॑: । अस्मि॑ । यदि॑। वा॒ । आयु॑: । त॒तप॑ । पुरु॑षस्य । अध॑ । स: । वी॒रै: । द॒शऽभि॑: । वि । यू॒या॒: । य: । मा॒ । मोघ॑म् । यातु॑ऽधान । इति॑ ।आह॑ ॥४.१५॥
स्वर रहित मन्त्र
अद्या मुरीय यदि यातुधानो अस्मि यदि वायुस्ततप पूरुषस्य। अधा स वीरैर्दशभिर्वि यूया यो मा मोघं यातुधानेत्याह ॥
स्वर रहित पद पाठअद्य । मुरीय । यदि । यातुऽधान: । अस्मि । यदि। वा । आयु: । ततप । पुरुषस्य । अध । स: । वीरै: । दशऽभि: । वि । यूया: । य: । मा । मोघम् । यातुऽधान । इति ।आह ॥४.१५॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(अद्य) वर्तमाने दिने (मुरीय) मृङ् प्राणत्यागे-विधिलिङ्। बहुलं छन्दसि। पा० २।४।७३। तुदादेरदादित्वम्। बहुलं छन्दसि। पा० ७।१।१०३। ऋकारस्य उकारः। अहं म्रियेय (यदि) (यातुधानः) पीडाप्रदः (अस्मि) (यदि वा) (आयुः) जीवनम् (ततप) अहं सन्तापितवान् (पुरुषस्य) मनुष्यस्य (अद्य) अथ (सः) स त्वम् (वीरैः) शूरैः (दशभिः) (वियूयाः) वियुक्तोः भवेः (यः) यो भवान् (मा) माम् (मोघम्) व्यर्थम् (यातुधान) त्वं यातुधानोऽसि (इति) अनेन प्रकारेण (आह) ब्रूते ॥
इस भाष्य को एडिट करें