Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 2
    सूक्त - चातनः देवता - इन्द्रासोमौ, अर्यमा छन्दः - जगती सूक्तम् - शत्रुदमन सूक्त

    इन्द्रा॑सोमा॒ सम॒घशं॑सम॒भ्यघं तपु॑र्ययस्तु च॒रुर॑ग्नि॒माँ इ॑व। ब्र॑ह्म॒द्विषे॑ क्र॒व्यादे॑ घो॒रच॑क्षसे॒ द्वेषो॑ धत्तमनवा॒यं कि॑मीदिने ॥

    स्वर सहित पद पाठ

    इन्द्रा॑सोमा । सम् । अ॒घऽशं॑सम् ।अ॒भि । अ॒घम् । तपु॑: । य॒य॒स्तु॒ । च॒रु: । अ॒ग्नि॒मान्ऽइ॑व । ब्र॒ह्म॒द्विषे॑ । क्र॒व्यऽअदे॑ । घो॒रऽच॑क्षसे । द्वेष॑: । ध॒त्त॒म् । अ॒न॒वा॒यम् । कि॒मी॒द‍िने॑ ॥४.२॥


    स्वर रहित मन्त्र

    इन्द्रासोमा समघशंसमभ्यघं तपुर्ययस्तु चरुरग्निमाँ इव। ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥

    स्वर रहित पद पाठ

    इन्द्रासोमा । सम् । अघऽशंसम् ।अभि । अघम् । तपु: । ययस्तु । चरु: । अग्निमान्ऽइव । ब्रह्मद्विषे । क्रव्यऽअदे । घोरऽचक्षसे । द्वेष: । धत्तम् । अनवायम् । किमीद‍िने ॥४.२॥

    अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 2

    टिप्पणीः - २−(इन्द्रासोमा) म० १। (सम्) सम्यक् (अवशंसम्) अ० ४।२१।७। अनिष्टं चिन्तकम् (अभि) प्रति (अघम्) दुःखम् (तपुः) अर्तिपॄवपि०। उ० २।११७। तप दाहे-उसि। तापकम् (ययस्तु) यसु प्रयत्ने। आयासयुक्तं क्लेशप्रदं भवतु (चरुः) पात्रम् (अग्निमान्) अग्नियुक्तः (इव) यथा (ब्रह्मद्विषे) वेदद्वेष्ट्रे, (क्रव्यादे) मांसभक्षकाय (घोरचक्षसे) चक्षिङ् व्यक्तायां वाचि दर्शने च-असुन्। क्रूररूपाय। परुषवचनाय (द्वेषः) अप्रीतिम् (धत्तम्) धारयतम् (अनवायम्) अन+अव परिभवे+इण् गतौ-अच्। अव्यवहितम्। निरन्तरम् (किमीदिने) अ० १।७।१। पिशुनाय ॥

    इस भाष्य को एडिट करें
    Top